________________
'से णं देवसयणिजे इत्यादि, तद् देवशयनीयं 'सालिङ्गनवर्तिक' सह आलिङ्गनवा -शरीरप्रमाणेनोपधानेन यद् तत्तथा 'उभओविव्वोयणे' इति उभयतः-उभौ-शिरोऽन्तपादान्तावाश्रित्य विव्वोयणे-उपधाने यत्र तद् उभयतोविब्बोयणं- 'दुहतो उन्नते' इति उभयत उन्नतं 'मज्झेणयगंभीरे' इति, मध्ये च नतं निम्नत्वाद् गम्भीरं च महत्त्वात् नतगम्भीरं गङ्गापुलिनवालुकाया अवदालो-विदलनं पादादिन्यासेऽधोगमनमिति भावः तेन 'सालिसए' इति सदृशकं गङ्गापुलिनवालुकावदालसदृशं, तथा 'ओयविय' इति विशिष्टं परिकर्मितं क्षौम-कार्पासिकं दुकूलं-वलं तदेव पट्ट ओयवियक्षौमदुकूलपट्टः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईणगरू|यबूरनवणीयतूलफासे' इति प्राग्वत् , 'रत्तंसुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतम् , अत एव सुरम्यं 'पासाइए' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तस्स ण'मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमा| यामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी अच्छा' इत्यादि प्राग्वत् ॥ 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं च वर्णकश्च महेन्द्रध्वजवद्वक्तव्यः ॥ 'तस्स ण'मित्यादि, तस्य क्षुल्लकस्य महेन्द्रध्वजस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धी महान् एकश्चोप्पालो नाम 'प्रहरणकोश' प्रहरणस्थानं प्रज्ञप्त, किंविशिष्टमित्याह'सव्ववइरामए अच्छे जाव पडिरूवे' इति प्राग्वत् ॥ 'तत्थ ण'मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नप्रमुखाणि प्रहरणरत्नानि संक्षिप्तानि तिष्ठन्ति, कथम्भूतानीत्यत आह-उज्वलानि-निर्मलानि सुनिशितानि-अतितेजितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत् ॥ 'तीसे णं सभाए' इत्यादि, तस्याः सुधर्मायाः सभाया उपरि बहून्यष्टावष्टौ मङ्गलकानि, इत्यादि सर्व प्राग्वत्तावक्तव्यं यावद्बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ।।