________________
बीजीवा-
म
रीयावृत्तिः
२२८॥
+36 SESSISSE
तासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधः-उत्कर्षतः पञ्च धनु:- प्रतिप
शतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकनिसन्नाओ' इति पर्यकासननिषण्णाः स्तूपाभिमुख्य- मनुष्य स्तिष्ठन्ति, तद्यथा-ऋषभा वर्द्धमाना चन्द्रानना वारिषेणा ॥ 'तेसि णमित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं प्रत्येक मणिपीठिकाः 8 सभावा | प्रज्ञप्ताः, ताश्च मणिपीठिका द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वासना मणिमय्यः अच्छा इत्यादि प्राग्वत् । उद्देश: तासां च मणिपीठिकानामुपरि प्रत्येक प्रत्येकं चैत्यवृक्षाः प्रज्ञप्ताः । ते चैत्यवृक्षा अष्टौ योजनान्यूद्धमुच्चैस्त्वेन अर्द्धयोजनमुत्सेधेन उण्डत्वेन * सू०१३ द्वे योजने उश्चैस्त्वेन स्कन्धः स एवार्द्ध योजनं विष्कम्भेन यावद्वहुमध्यदेशभागे ऊर्द्ध विनिर्गता शाखा सा विडिमा सा षड् योजनान्यूर्द्ध| मुच्चैस्त्वेन, साऽपि चार्द्ध योजनं विष्कम्भेन, सर्वाग्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञप्तः । तेषां च चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-'वइरामया मूला रययसुपइडिया विडिमा' वाणि-वजरत्नमयानि मूलानि येषां ते वामूलाः, तथा रजतारजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्द्ध विनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन कर्मधारयसमासः, 'रिहमयकंदवेरुलियरुचिरखंधी' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठरत्नमयकन्दाः, तथा वैडूर्यो-वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यजातरूपं तदालका प्रथमका-मूलभूता विशाला शाला-शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशाला: 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेंटा'नानामणिरत्नानां नानामणिरत्नामिका विविधाः शाखा: प्रशाखाश्च येषां ते तथा, वैडूर्याणि- २२८ वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत्पदद्वयपद्यमीलनेन कर्म