SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ सुधर्मासभाया अपि द्रष्टव्यम् ॥ 'तेसि ण' मित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, तेऽपि च प्रेक्षागृहमण्डपा अर्द्धत्रयोदश योजनान्यायामेन, सक्रोशानि षड् योजनानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्द्धमुश्चैस्त्वेन, प्रेक्षागृहमण्डपानां च भूमिभागवर्णनं पूर्ववत्तावद्वाच्यं यावन्मणीनां स्पर्शः ॥ ' तेसि ण' मित्यादि तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं वज्रमयः 'अक्षपाटक:' चतुरस्राकारः प्रज्ञप्तः, तेषां चाक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं मणिपीठिका: प्रज्ञप्ताः, ताच मणिपीठिका योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं वाहल्येन 'सव्यमणिमईओ' इति सर्वात्मना मणिमय्य: 'अच्छा' इत्यादि । विशेषणकदम्बकं प्राग्वत् ॥ 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेषां च प्रेक्षागृह मण्डपानामुपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञप्तानि, कृष्णचामरध्वजादि । च प्राग्वद्वक्तव्यम् ॥ 'तेसि ण'मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका: प्रत्येकं द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं वाहल्येन सर्वासना मणिमय्य: अच्छा इत्यादि प्राग्वत् ॥ 'तासि ण' मित्यादि, | तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यस्तूपाः प्रज्ञप्ताः, ते च चैत्यस्तूपाः सातिरेके द्वे योजने ऊर्द्धमुच्चैस्त्वेन द्वे योजने आयामविष्कम्भाभ्यां शङ्खाङ्ककुन्ददकरजोऽमृतमथितफेनपुञ्जसंनिकाशाः सर्वात्मना रत्नमया अच्छा: लक्ष्णा इत्यादि प्राग्वत् ॥ 'सिग'मित्यादि, तेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि वहवः कृष्णचामरध्वजा इत्यादि प्राग्वत् ॥ "तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिका: प्रज्ञप्ताः, ताच मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्ध योजनं बाहुल्येन सर्वासना मणिमय्यः अच्छा इत्यादि प्राग्वत् ॥ 'तासि णमित्यादि,
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy