________________
4
.
३प्रतिपत्तौ मनुष्या० सभावर्णनं उद्देशः२ सू० १३७
SROADCARAM
4
-
-
-
मल्लदामकलावा' इति आ-अवाङ् अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्द्ध सक्त उत्सक्त:-उल्लोचतले उपरिसंवद्ध इत्यर्थः, विपलो-विस्तीर्णः वृत्तो-वर्नुल: 'वग्धारिय' इति प्रलम्बितो माल्यदामकलाप:-पुष्पमालासमूहो यस्यां सा आसक्तोसक्तविपुलवृत्तव-2 8 ग्धारितमाल्यदामकलापा, तथा पञ्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलिता प
श्ववर्णसरससुरभिमुक्तपुष्पपुजोपचारकलिता 'कालागुरुपवरकुन्दुरुक्कतुरुकधूवमघमघेतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवहिभूया' इति प्राग्वत् , 'अच्छरगणसंघसंविकिण्णा' इति अप्सरोगणानां सङ्कः-समुदायस्तेन सम्यग-रमणीयतया विकीर्णा-व्याप्ता 'दिव्वतडियसहसंपणादिया' इति दिव्यानां त्रुटिताना-आतोद्यानां वेणुवीणामृदगादीनां ये शब्दास्तैः सम्यक-श्रोत्रमनोहारितया प्रकर्षेण नादिता-शब्दवती दिव्यत्रुटितसंप्रणादिता 'अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् ॥ 'तीसे णं सभाए ण'मित्यादि, सभायाः सुधर्मायाः 'त्रिदिशि' तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एक पूर्वस्यामेकं दक्षि-5 णस्यामेकमुत्तरस्याम् ॥ 'ते णं दारा' इत्यादि, तानि द्वाराणि प्रत्येकं प्रत्येकं द्वे द्वे योजने ऊर्द्धमुच्चस्त्वेन योजनमेकं विष्कम्भेन 'तावइयं चेवेति योजनमेकं प्रवेशेन 'सेया वरकणगथूभियागा' इत्यादि प्रागुक्तं द्वारवर्णनं तदेतावद्वक्तव्यं यावद्वनमाला इति ॥ 'तेसि णमित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डप: प्रज्ञप्तः, ते च मुखमण्डपा अर्द्धत्रयोदश योजनानि आयामेन, पड़ योजनानि सकोशानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्द्ध मुस्त्वेन, एतेपामपि 'अणेगखंभसयसन्निविट्ठा' इत्यादि वर्णनं सुधायाः सभाया इव निरवशेष द्रष्टव्यं, तेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनं च यावन्मणीनां स्पर्शः प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां मुखमण्डपानामुपरि अष्टावष्टौ मङ्गलकानि-खस्तिकादीनि प्रज्ञप्तानि, तान्येवाह-'तंजहे'त्यादि, एतच विशेषणं
--
RSSESSAGARMANANTA
--
॥२२७॥