________________
करनानि खचितानि यत्र स नानामणिकनकरत्नखचितः, निष्टान्तस्य परनिपातो भार्यादिदर्शनात् , नानामणिकनकरत्नखचितः उ-15
ज्ज्वलो-निर्मलो बहुसम:-अत्यन्तसमः सुविभक्तो निचितो-निबिडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकरत्नखचितोज्वPालबहुसमसुविभक्त (निचितरमणीय) भूमिभागा 'ईहामिगउसहतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्ति-IN चित्ता' इति तथा स्तम्भोद्गतया-स्तम्भोपरिवर्तिन्या वज्रवेदिकया-वत्ररत्नमय्या वेदिकया परिगता सती याऽभिरामा स्तम्भोद्गतवजवेदिकापरिगताभिरामा 'विजाहरजमलजुगलजंतजुत्ताविव अच्चिसहस्समालणीया रूवगसहस्सकलिया 'भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति प्राग्वत् 'कंचणमणिरयणथूभियागा' इति काञ्चनमणिरत्नानां स्तूपिका-शिखरं यस्याः सा काञ्चनमणिरत्नस्तूपिकाका 'नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा' नानाविधाभि:-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि-सामस्येन मण्डितमप्रशिखरं यस्याः सा नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताप्रशिखरा 'धवला' श्वेता मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुञ्चन्ती 'लाउल्लोइयमहिया' इति लाइयं नामः यद् भूमेोमयादिना उपलेपनम् उल्लोइयं-कुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणं लाउल्लोइयं ताभ्यामिव महिता-पूजिता लाउल्लोइयम हिता, तथा गोशीर्षेण-गोशीर्पनामचन्दनेन सरसरक्तचन्दनेन दईरेण-बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गलयस्तला-हस्तका यत्र सा गोशीर्षकसरसरक्तचन्दनददरदत्तपञ्चाङ्गुलितला, तथा उपचिता-निवेशिता वन्दनकलशा-मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा 'चंदणघडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनघटै:-चन्दनकलशैः सुकृतानि-मुष्ठ कृतानि शोभनानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यां सा चन्दनघदसुकृततोरणप्रतिद्वारदेशभागा, तथा 'आसत्तोसत्तववग्घारिय-॥