________________
वा
भि०
नगि
त्तिः
२॥
भावा' इतिपरिग्रहः पत्योपमस्थितिकाः परिवसन्ति, तद्यथा--' असोए' इत्यादि, अशोकवनेऽशोकः सप्तपर्णवने सप्तपर्णः चम्पकवने चम्पकः चूतवने चूतः ॥ ' तेसि ण' मि (तत्थ णं ते इ) त्यादि, ते अशोकादयो देवास्तस्य वनखण्डस्य स्वस्य प्रासादावतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययो भवतीति, स्वेषां स्वेषां सामानिकसहस्राणां स्वासां स्वासामप्रमहिषीणां सपरिवाराणां स्वासां स्वासां पर्पदां स्वेषां स्वेपामनीकानां (अनीकाधिपतीनां) स्वेषां स्वेपामात्मरक्षकाणाम् 'आहेवनं पोरेवन' मित्यादि प्राग्वत् ॥ 'विजयाए ण'मित्यादि, विजयाया राजधान्या अन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य 'से जहानामए आलिंगपुखरेइ वा' इत्यादि वर्णनं प्राग्वत् निरवशेषं तावद्वक्तव्यं यावन्मणीनां स्पर्शः, तस्य च बहुममरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महद् एकमुपकारिकालयनं प्रज्ञप्तं, राजधानीस्वामिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्रातीत्युपकारिका - राजधानीस्वामिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र त्वियमुपकार्योपकारकेति प्रसिद्धा, उक्तभ्व – “गृहस्थानं स्मृतं राज्ञामुपकार्योपकारका" इति, उपकारिकालयनमिव उपकारिकालयनं तद् द्वादश योजनशतानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि सप्त योजनशतानि पश्वनवतानि-पश्चनवत्यधिकानि किश्विद्विशेपाधिकानि परिक्षेपेण प्रज्ञप्तानि, परिक्षेपपरिमाणं चेदं प्रागुक्तकरणवशात्स्वयमानेतव्यम्, अर्द्धक्रोशं धनुःसहस्रपरिमाणं वाहुल्येन 'सव्वजंबूणयामए' इति सर्वासना जाम्बूनदमयम्, 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् ॥ 'से ण' मित्यादि, 'तद्' उपकारिकालयनम् एकया पद्मवरवेदिकया तत्पृष्ठभाविन्या एकेन च वनपण्डेन 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं पद्मवरवेदिकावर्णको वनपण्डवर्णकः प्राग्वन्निरवशेषो वक्तव्यो यावत् 'तत्थ यहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति जाव विहरंति' इति ॥ ' तस्स ण' मित्यादि, तस्य उपकारिकालयनस्य 'चउदिसिं' ति चतुर्दिशि चतसृषु
३ प्रतिपत्त
मनुष्या० वनपण्डा
धि०
उद्देशः २ सू० १३६
॥ २२२ ॥