________________
दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि - प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि त्रिसोपानवर्णकः पूर्ववद्वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञप्तं, तेषां च तोरणानां वर्णनं प्राग्वद्वक्तव्यम् ॥ ' तस्स णमित्यादि, 'तस्य' उपकारिकालयनस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहानामए' इत्यादि भूमिभागवर्णनं प्राग्व|त्तावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च द्वाषष्टिर्योजनानि अर्द्ध च योजनमूर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं चायामविष्कम्भाभ्याम्, 'अब्भुग्गयमूसियपहसियाविवेत्यादि, तस्य वर्णनं मध्ये भूमिभागवर्णनं सिंहासनवर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि विजयद्वारवहिः स्थितप्रासादवद्भावनीयानि ॥ ' तस्स ण' मित्यादि, तस्य मूलप्रासादावतंसकस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, सा चैकं योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी' इति सर्वासना मणिमयी 'अच्छा सहा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'ती से ण' मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि ॥ ' से ण' मित्यादि, स च मूलप्रासादावतंसकोऽन्यैश्चतुर्भिर्मूलप्रासादावतंस कैस्तदद्धञ्च त्वप्रमाण| मात्रै :- मूलप्रासादावतंसकार्द्धाश्वत्वप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्तः, तदर्द्धाच्चत्व प्रमाणमेव दर्शयति - एकत्रिंशतं योजनानि क्रोशं चैकमूर्द्धमुचैस्त्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान् आयामविष्कम्भाभ्यां तेषामपि 'अब्भुग्गयमूसिय पह सियाविवेत्यादि स्वरूपवर्णनं मध्ये भूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत् ॥ ' तेसि ण 'मित्यादि तेषां प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र सिंहासनानां शेषाणि परिवारभूतानि न वक्तव्यानि ॥ ' ते णं पासा -