________________
३ प्रतिपत्तौ मनुष्या० विजयार राजधानी उद्देशः २ सू०१३५
5 इत्यादि, तानि द्वाराणि प्रत्येकं द्वाषष्टियोजनानि अर्द्धयोजनं चोर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं च विष्कम्भतः, 'तावइयं
चेव पवेसेणं' एतावदेव-एकत्रिंशद् योजनानि क्रोशं चेत्यर्थः प्रवेशेन, 'सेया वरकणगथूभियागा' इत्यादि द्वारवर्णनं निरवशेष तावद्वक्तव्यं यावद्वनमालावर्णनम् ॥ 'तेसि णं दाराण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैपेधिक्यां द्वौ द्वौ 'प्रकण्ठको' पीठविशेषौ प्रज्ञप्तौ, ते च प्रकण्ठकाः प्रत्येकमेकत्रिंशतं योजनानि क्रोशमेकं च आयामविष्कम्भाभ्यां, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान् बाहल्येन 'सव्ववइरामया' इति सर्वासना ते प्रकण्ठका वनरत्नमयाः 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत्॥'तेसिं पगंठगाण'मित्यादि, तेषां प्रकण्ठकानामुपरि प्रत्येकं 'प्रासादावतंसकः' प्रासादविशेषः प्रज्ञप्तः ॥ ते णं पासायवडेंसगा' इत्यादि, ते प्रासादावतंसका एकत्रिंशतं योजनानि कोशं चैकमूर्द्धमुच्चैस्त्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान आयामविष्कम्भाभ्यां, तेषां च प्रासादानाम् 'अन्भुग्गयमूसियपहसियाविव' इत्यादि सामान्यतः स्वरूपवर्णनम् उल्लोकवर्णनं मध्यभूमिभागवर्णनं सिंहासनवर्णनं विजयदूष्यवर्णनं मुक्तादामोपवर्णनं च विजयद्वारवत् , शेषमपि तोरणादिकं विजयद्वारवदिमाभिर्वक्ष्यमाणाभिर्गाथाभिरनुगन्तव्यं, ता एव गाथा आह्-'तोरणे'त्यादि गाथात्रयं, द्वारेषु प्रत्येकमेकैकस्यां नैषेधिक्यां द्वे द्वे तोरणे वक्तव्ये, तेषां च तोरणानामुपरि प्रत्येकमष्टावष्टौ मङ्गलकानि, तेषां तोरणानामुपरि कृष्णचामरध्वजादयो ध्वजाः, तदनन्तरं तोरणानां पुरतः शालभलिकाः तदनन्तरं नागदन्तकास्तेषु च नागदन्तकेषु दामानि ततो यसवाटादयः सबाटा वक्तव्याः ततो हयपत्यादयः पक्लयस्तदनन्तरं यवीथ्यायो वीथयस्ततो यमिथुनकादीनि मिथुनानि ततः पद्मलतादयो लताः ततः 'सोत्थिया' चतुर्दिक्सौवस्तिका वक्तव्यास्ततो वन्दनकलशास्तदनन्तरं भृङ्गारकास्तत आदर्शकास्ततः स्थालानि ततः पाव्यस्तदनन्तरं सुप्रतिष्ठानि ततो मनोगुलिकास्तासु
SAMAGRANGA
॥२१९॥