________________
SHISHASHASHASHISHASHASHISHA
घानः, अनेन जम्बूद्वीपानामप्यसोयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राणि अवगाह्य अत्रान्तरे विजयस्य देवस्य योग्या विजया नाम राजधानी प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः, सा च द्वादश योजनसहस्राणि 'आयामविष्कम्भेन' आयामविष्कम्माभ्यां, सप्तत्रिंशद् योजनसहस्राणि नव शतानि 'अष्टाचत्वारिंशानि' अष्टचत्वारिंशदधिकानि किश्चिद्विशेषाधिकानि परिक्षेपेण, इदं च परिक्षेपपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होई' इति करणवशात्स्वयमानेतव्यम् ॥ ‘सा ण'मित्यादि, 'सा' विजयाभिधाना
राजधानी णमिति वाक्यालङ्कारे एकेन महता प्राकारेण 'सर्वतः' सर्वासु दिक्षु 'समन्ततः सामस्त्येन परिक्षिप्ता ॥ से ण'मित्यादि, दस प्राकारः सप्तत्रिंशतं योजनानामर्द्धयोजनमूर्द्धमुच्चैस्त्वेन मूलेऽर्द्धत्रयोदश योजनानि विष्कम्भेन मध्ये पड् योजनानि सक्रोशानि-एकेन |क्रोशेनाधिकानि विष्कम्भेन उपरि त्रीणि योजनानि सार्द्धकोशानि [योजनानि] सार्द्धानि द्वादश अर्द्धक्रोशाधिकानि (द्वादश) विष्कम्भेन, मूले विस्तीर्णो मध्ये संक्षिप्तो, मूलविष्कम्भतोऽर्द्धस्य श्रुटितत्वात् , उपरि तनुको, मध्यविष्कम्भादप्यर्द्धस्य त्रुटितत्वात् , बहिर्वृत्तोऽन्तश्चतुरस्रो 'गोपुच्छसंस्थानसंस्थितः' ऊर्कीकृतगोपुच्छसंस्थानसंस्थितः 'सवकणगमए' सर्वासना कनकमयः 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् ॥ ‘से ण'मित्यादि, स प्राकारो नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधवं च पञ्चवर्णापेक्षया कृष्णादिवर्णतारतम्यापेक्षया वा द्रष्टव्यं, पञ्चवर्णत्वमेवोपदर्शयति-'किण्हेहिं' इत्यादि ॥'ते णं कविसीसगा'-इत्यादि, तानि कपिशीर्षकाणि प्रत्येकमर्द्धकोशं-धनु:सहस्रप्रमाणमायामेन-दैर्येण पञ्च धनुःशतानि 'विष्कम्भेन' विस्तारेण, देशोनमर्द्धक्रोशमूर्द्ध मुच्चैस्त्वेन | 'सव्वमणिमया' इत्यादि सर्वासना मणिमया 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्या एकैकस्यां बाहायां पञ्चविंश-पञ्चविंशत्यधिकं द्वारशतं २ प्रज्ञप्त, सर्वसङ्ख्यया पञ्च द्वारशतानि ॥ ते णं दारा'