________________
'नागदन्तकाः' अङ्कटकाः प्रज्ञप्ताः, तेषु नागदन्तकेषु बहूनि 'रजतमयानि' रूप्यमयानि सिककानि प्रज्ञप्तानि, तेषु च रजतमयेषु सिक्केषु बहवो 'वातकरकाः' जलशून्याः करका इत्यर्थः प्रज्ञप्ताः ॥'ते 'मित्यादि ते वातकरकाः 'कृष्णसूत्रसिक्कगवस्थिताः' इति, आच्छादनं गवस्था:(ता:) संजाता एष्विति गवस्थिताः कृष्णसूत्रैः-कृष्णसूत्रमयैर्गवस्थैरिति गम्यते, सिककेषु गवस्थिताः कृष्णसूत्रसिकगवस्थिताः, एवं नीलसूत्रसिककगवस्थिता इत्याद्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमया अच्छा इत्यादि प्राग्वत्॥'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'चित्रौ' चित्रवर्णोपेतावाश्चर्यभूतौ वा रत्नकरण्डको प्रज्ञप्तौ, 'से जहा नामए' इत्यादि, स यथा नाम-राज्ञश्चतुरन्तचक्रवर्तिनः, चतुर्यु-पूर्वोपरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य तस्य 'चित्रः' आश्चर्यभूतो नानामणिमयत्वेन नानावर्णों वा 'वेरुलियमणिफालियपडलपच्चोयडे' इति वाहुल्येन वैडूर्यमणिमयः, तथा 'स्फाटिकपटलप्रत्यवतट:' स्फाटिकपटलमयाच्छादनः 'साय पभाए' इति वकीयया प्रभया 'तान्' प्रत्यासन्नान् प्रदेशान् 'सर्वतः' सर्वासु दिक्षु "सम
मिस्त्येनावभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्द्योतयति तापयति प्रभासति, 'एवमेवेत्यादि सुगमम् ॥ 'तेसिणं तोरणाण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'हयकण्ठौ' यकण्ठप्रमाणौ रत्नविशेपौ प्रज्ञप्ता, एवं गजकिंनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठा अपि वाच्याः, उक्तं च मूलटीकायां-"हयकण्ठौ यकण्ठप्रमाणौ रत्नविशेषौ,” एवं सर्वेऽपि कण्ठा वाच्या इति, तथा चाह -'सव्वरयणामया' सर्वे 'रत्नमयाः' रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पुष्पचङ्गेयौं प्रज्ञप्तौ, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गेयोऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमय्यः, 'अच्छा' इत्यादि प्राग्वत् ॥ एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि ॥ 'तेसि णमित्यादि, तेपा तोरणानां पुरतो द्वे द्वे|