________________
विणमियाओं (निश्चं पणमियाओ) निश्चं सुविभत्तपडिमंजरिवडंसगधरीओ निश्चं कुसुमियमउलियलवइयथवइयनिञ्चंगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् । पुनः कथम्भूताः? इत्याह-सव्वरयणामया जाव* पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकपरिग्रहः स च प्राग्वद्भावनीयः ॥'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चन्दनकलशौ प्रज्ञप्तौ, वर्णकश्व चन्दनकलशानां 'वरकमलपइट्ठाणा' इत्यादिरूपः सर्वः प्राक्तनो वक्तव्यः॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ भृङ्गारको प्रज्ञप्तौ, तेषामपि चन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते 'मत्तगयमहामुहागिइसमाणा पण्णत्ता समणाउसो!' इति वक्तव्यं 'मत्तगयमहामुहागिइसमाणा' इति मत्तो यो गजस्तस्य महद्-अतिवि
शालं यन्मुखं तस्याकृति:-आकारस्तत्समाना:-तत्सदृशाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो BI द्वौ द्वावादर्शकौ प्रज्ञप्तौ, तेषां चादर्शकानामयमेतद्रूप: 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तपनीयमया: "प्रकण्ठकाः' पीठ| कविशेषाः 'वैडूर्यमयार्थभया' आदर्शकगण्डप्रतिबन्धप्रदेशाः, आदर्शकगण्डानां मुष्टिग्रहणयोग्याः प्रदेशा इति भावः, वरत्नमया वराङ्गा गण्डा इत्यर्थः, 'नानामणिमया वलक्षाः' वलक्षो नाम शृङ्खलादिरूपमवलम्बनम्, अङ्कमयानि-अकरत्नमयानि मण्डलानि यत्र प्रतिबिम्बसंभूतिः 'अणोहसियणिम्मलाए छायाए' इति, अवघर्षणमवघर्षितं, भावे क्तप्रत्ययः, भूत्यादिना निमजनमित्यर्थः, अवघर्षितस्याभावोऽनवघर्षितं तेन निर्मला अनवघर्षितनिर्मला तया छायया समनुवद्धाः 'चंदमंडलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महयामहया' अतिशयेन महान्तः 'अर्द्धकायसमानाः' द्रष्टुः शरीरार्द्धप्रमाणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे वचनामे स्थाले प्रज्ञप्ते, तानि च स्थालानि [तिष्ठन्ति] 'अच्छतिच्छडियसालितंदुलनहसं