________________
विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिछत्राणि - उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्धूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिताः 'तुङ्गाः' उच्चा उच्चैस्त्वेन चतुर्योजन प्रमाणत्वात्, अत एव 'गगणतलमणुलिहन्त सिहरा' इति, गगनतलम् - अम्बरम् अनुलिखन्ति - अभिलङ्घयन्ति शिखराणि येषां ते गगनतलानु लिख च्छिखराः, तथा जालानि - जालकानि यानि भवनभिति लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा पराद् उन्मीलिता इव बहिष्कृता इव यथा हि किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद् वहिष्कृतमत्यन्तमविनष्टच्छायं भवति एवं तेऽपि प्रासादावतंसका इति भाव:, तथा मणिकनकानि - मणिकनकमय्यः स्तूपिका :- शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि भित्त्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिपु तैश्वित्रा - नानारूपा आश्चर्यभूता विकसितशत पत्रपुण्डरीक तिलकार्द्धचन्द्र चित्राः अन्तर्वहिच ( नाना - अ नेकप्रकारा ये चन्द्रकान्ताद्या मणयस्तन्मयानि - तत्प्रधानानि यानि दामानि - पुष्पमालास्तैरलङ्कृताः ) ' श्लक्ष्णाः' मसृणाः, तथा तपनीयं - सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तटं-प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईयां इत्यादि प्राग्वत् ॥ ' तेसि ण' मित्यादि तेषां च प्रासादावतंसकानाम् 'उल्लोकाः' उपरितनभागाः पद्मलताभक्तिचिया अशोकलताभक्तिचित्राश्चम्पकंठताभक्तिचित्राभूतलताभक्तिचित्रा वनलताभक्तिचित्रा वासन्तिकलताभक्तिचित्राः सर्वासना तपनीयमयाः 'अच्छा सण्हा जाव ear' इति विशेषण कदम्बकं प्राग्वत् ॥ 'तेसि ण' मित्यादि, तेषां प्रासादावतंसकानामन्तर्य हुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहा नाम आलिंगपुक्खरे ६ या' इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपाकसुरभिगन्धशुभस्पर्शवर्णनं प्राग्वत् ॥ 'तेसि ण' मित्यादि,
३ प्रतिपत्ती मनुष्या० विजयद्वा
वर्णनं
उद्देशः १
सू० १३०
॥ २०९ ॥