________________
ते णं दामा तवणिज्जलंबूसका सुवण्णपयरगमंडिता जाव चिट्ठति, तेसि णं पासायवडिंसगाणं - उप्पि यहवे अट्ठमंगलगा पण्णत्ता सोत्थिय तधेव जाव छत्ता ॥ (सू० १३०)
'विजयस्स 'मित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां द्वौ द्वौ प्रकण्ठको प्रज्ञप्तौ, प्रकण्ठको नाम पीठविशेषः। आह च मूलटीकाकार:-"प्रकण्ठौ पीठविशेषौ,” चूर्णिकारस्त्वेवमाह-"आदर्शवृत्ती पर्यन्तावनतप्रदेशो पीठो प्रकण्ठावि"ति, ते च प्रकण्ठकाः प्रत्येक चत्वारि योजनानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां द्वे योजने बाहल्येन 'सव्ववइरामया' इति सर्वासना ते प्रकण्ठका वनमयाः 'अच्छा सण्हा य' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तेसि णं पकंठयाण'मित्यादि, तेषां च प्रकण्ठकानामुपरि प्रत्येकं प्रासादावतंसकः प्रज्ञप्तः, प्रासादावतंसको नाम प्रासादविशेपः, उक्तं च मूलटीकायां-"प्रासादावतंसकः प्रासादविशेष" इति, व्युत्पत्तिश्चैवम्-प्रासादानामवतंसक इव-शेखरक इव प्रासादावतंसकः, ते च प्रासादावतसंकाः प्रत्येकं चत्वारि || योजनान्यूर्द्धमुच्चस्त्वेन द्वे योजने आयामविष्कम्भाभ्याम् , 'अन्भुग्गयमूसियपहसियाविवे'ति अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा निरालम्बास्तिष्ठन्तीति भावः, अथवा प्रबलश्वेतप्रभापटलया प्रहसिताविव प्रकर्षेण हसिताविव, तथा 'विविहमणिरयणभत्तिचित्ता' विविधा अनेकप्रकारा ये मणय:-चन्द्रकान्ताद्या यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभिः-विच्छित्तिभिश्चित्रा-नानारूपा आश्चयवन्तो वा नानाविधमणिरत्नभक्तिविचित्राः 'वाउद्धयविजयवेजयंतीपडागछत्तातिछत्तकलिया' वातोता-वायुकम्पिता विजयः -अभ्युदयस्तत्संसूचिका वैजयन्तीनामानो (नाम्यो) याः पताकाः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्यो