________________
तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं (मणिपीठिकाः प्राप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्भेन अष्ट योजनानि बाहल्येन सर्वरत्नमय्यो यावत्प्रतिरूपाः तासां मणिपीठिकानामुपरि) सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहा तैरुपशोभितानि सिंहासनानि 'सौवर्णिका' सुवर्णमयाः पादाः तपनीयमयानि चक्कलानि-पादानामधःप्रदेशाः भवन्ति [मुक्तानानामणिमयानि पादानामधःप्रदेशाः प्रयुक्ता, नानामणिमयानि 'पादशीर्षकाणि' पादानामुपरितना अवयव विशेषा जाम्बूनदमयानि गात्राणि ईषदच्छाः 'वज्रमया' वरत्नापूरिताः 'सन्धयः' गात्राणां सन्धिमेला नानामणिमयं 'वेच्चं' व्यूतं वानमित्यर्थः, आह च चूर्णिकृत्-"वेच्चे वाणक्कतेण"मित्यादि, तानि च सिंहासनानि ईहामृगऋषभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि 'ससारसारोवचियविविहम-18 णिरयणपादपीढा' इति, सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरत्नैरुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वाञ्च उपचितशब्दस्यान्तरुपन्यासः, 'अच्छरमउयमसूरगनवतयकुसन्तलित्तकेसरपच्चत्थयाभिरामा' इति, आस्तरक-आच्छादनं मृदु येषां मसूर-11 || काणां तानि आस्तरकमृदूनि, विशेषणस्य परनिपातः प्राकृतत्वात् , नवा त्वम् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ताः, नवत्वचश्च ते कुशान्ताश्च नवत्वकुशान्ताः प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि खतिकोमलानि लित्तानि-नम्र(मन)शीलानि च केसराणि, कचित् सिंहकेसरेति पाठस्तत्र सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवत्वक्कशान्तचिल्ल(लित्त)केसराणि, सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसुरकैर्नवत्वकशान्तलिच्च(त्त)केसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् , 'आईणगरुयबूरनवणीयतूलफासा' इति आजिनक
COMCARE२२-CE