________________
केसीओ' इति असिता:-कृष्णाः केशा यासां ता असितकेश्यः 'मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ' मृदवः-कोमला
विशदा-निर्मलाः प्रशस्तानि-शोभनानि अस्फुटितत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः संवेल्लितं-संवृतमयं येषां शेखरककरकूणात् ते संवेल्लिताप्राः शिरोजा:-केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताप्रशिरोजा: 'नाणामल्लपिणद्धाओ' इति नानारूपाणि |
माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यासां ता नानामाल्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात् , 'मुठिगेज्झसुमज्झा' इति मुष्टिग्राह्यं सुष्ठ-शोभनं मध्यं-मध्यभागो यासां ता मुष्टिग्राह्यसुमध्या: 'आमेलगजमलजुगलवट्टियअन्भुण्णयपीणरइयसंठियपओहराओ' पीनं-पीवरं रचितं संस्थितं-संस्थानं यकाभ्यां तो पीनरचितसंस्थितौ आमेलक-आपीडः शेखरक इत्यर्थः तस्य यमलं-समश्रेणीकं युगलं तद्वत् वर्तितौ-बद्धखभावावुपचितकठिनभावाविति भावः अभ्युन्नती पीनरचितसंस्थितौ च पयोधरौ यासां तास्तथा, 'ईसिं असोगवरपायवसमुठियाओ' इति ईषत्-मनाक् अशोकवरपादपे समवस्थिता-आश्रिता ईषदशोकवरपादपसमवस्थिताः, तथा वामहस्तेन गृहीतमग्रं शालाया:-शाखाया अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताप्रशाला:,' अड्डऽच्छिकडक्खचिट्ठिएहिं लूसेमाणीओ विवे'ति ईषत्-मनाग 'अड्डे'तिर्यग्वलितम् अक्षि येषु कटाक्षरूपेषु चेष्टितेषु तैर्मुष्णन्त्य इव सुरजनानां मनांसि 'चक्खुल्लोयणलेसेहि य अण्णमण्णं विज्झेमाणीओ इव' अन्नमन्नं-परस्परं चक्षुषां लोकनेन-अवलोकनेन लेशा:-संश्लेषास्तैर्विध्यमाना इव, किमुक्तं भवति?-एवं नाम तास्तिर्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ते यथा नूनं परस्परसौभाग्यासहनत स्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्त इवेति 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपागता विजयद्वारवत् 'चंदाणणाओ' इति चन्द्रवदु आननं-मुखं यासां ताश्चन्द्राननाः 'चंदविलासिणीओ' इति चन्द्रवन्मनोहरं