________________
विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्जुन - अष्टमीचन्द्रेण समं समानं ललाटं यासां ताशन्द्रार्द्धसमललाटाः ‘चंदाहियसोमदंसणाओं' इति चन्द्रादप्यधिकं सोमं सुभगं कान्तिमदर्शनं - आकारो यासां तास्तथा, उल्का इव योतमाना: 'विज्जुघणमरीचि सूरदिप्पंततेय अहिययर सन्निकासाओ' इति विद्युतो ये घना - बहुलतरा मरीचयस्तेभ्यो यथ सूर्यस्य दीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सन्निकाश:- प्रकाशो यासां तास्तथा 'सिंगारागार चारुवेसाओ' इति शृङ्गारो-मण्डनभूपणाटोपस्तत्प्रधान आकार आकृतिर्यासां ताः शृङ्गाराकाराः चारु वेपो - नेपथ्यं यासां ताञ्चारुवेपास्ततः कर्म्मवारये शृङ्गाराकारचारुवेषाः 'पासाईयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनैपेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैपेधिक्यां द्वौ द्वौ जालकटकौ प्रज्ञप्तौ, 'ते णं जालकाडगा' इत्यादि, ते च जालकटकाकीर्णा रम्यसंस्थानाः प्रदेशविशेषाः 'सव्वरयणामया अच्छा सण्हा 'विजयस्से' त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैपेधिक्यां द्वे द्वे घण्टे प्रज्ञप्ते, तासां च घण्टानामयमेतद्रूपः 'वर्णाजाव पडिरुवा' इति प्राग्वत् ॥ वासः' वर्णकनिवेश. प्रज्ञप्तः, तद्यथा - जाम्बूनदमय्यो घण्टाः वश्रमय्यो लालाः नानामणिमया घण्टापार्श्वाः तपनीयमय्यः शृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः ॥ 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टा: 'ओघस्वराः' ओघेन - प्रवाहेण स्वरो यासां ता ओघस्वराः, मेघस्येवातिदीर्घः स्वरो यासां ता मेघस्वराः, हंसस्येव मधुरः स्वरो यासां ता हंसस्वराः, एवं क्रोस्वराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यासां ताः सिहस्वराः, एवं दुन्दुभिस्वरा नन्दिखराः, द्वादशतूर्यसङ्घातो नन्दिः, नन्दिवद् घोषो -निनादो यासां ता नन्दिघोपाः, मञ्जुः - प्रियः खरो यासां ता मञ्जुस्वराः, एवं मनुघोपाः, किं बहुना ?, सुस्वराः सुखरघोषाः,
३ प्रतिपत्ती
मनुष्या० विजयद्वा
वर्णनं
उद्देशः १
सू० १२९
॥ २०७ ॥