________________
1 इति भावः 'अभिनिसिहा' इति अभिमुखं-अहि गाभिमुखं निसृष्टाः अभिनिसृष्टाः 'तिरियं सुसंपग्गहिया' इति तिर्यग्-भित्तिप्र
देशे सुष्टु अतिशयेन सम्यग-मनागप्यचलनेन परिगृहीताः सुसंपरिगृहीताः 'अहेपन्नगद्धरूवा' इति अध:-अधस्तनं यत्पन्नगस्य-सर्पस्यार्द्ध तस्येव रूपं-आकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे-'पन्नगार्द्धसंस्थानसंस्थिताः अधःपन्नगार्द्धसंस्थानसंस्थिताः 'सव्ववइरामया' सर्वासना वफामयाः "अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् , "महयामहया' इति अतिशयेन 'गजदन्तसमानाः' गजदन्ताकाराः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसु णं नागदंतएसु' इत्यादि, तेषु च नागदन्तकेषु बहवः कृष्णसूत्रे बद्धा: 'वग्धारिया' इति अवलम्बिताः 'माल्यदामकलापाः' पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्यदामकलापाः, एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः॥ ते णं दामा' इत्यादि, तानि दामानि 'तवनिजलंवसगा' इति तपनीय:-तपनीयमयो लम्बूसगो-दानामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेपो गोलकाकृतियेषां तानि तपनीयलम्बूसकानि 'सुवण्णपयरगमंडिया'इति पार्श्वत: सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि 'नानामणिरयणविविहहारद्धहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अतीव उवसोभेमाणा चिटुंति' अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः-'ईसिमण्णमण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइजमाणा पलंवमाणा पलंबमाणा परंभ(झंझ)माणा परंभ(झंझ)माणा ओरालेणं मणुन्नेणं मणहरेणं कण्णमणनिव्वुइकरणं सद्देणं ते पएसे सव्वतो समंता आपूरेमाणा आपूरेमाणा सिरीए उवसोभेमाणा उवसोभेमाणा चिट्ठति । एतच्च प्रागेव पद्मवरवेदिकावर्णने व्याख्यातमिति भूयो न व्याख्यायते ॥ 'तेसि णं नागदं