________________
३ प्रतिपत्ती मनुष्या० विजयदारवर्णनं उद्देशः१ सु० १२९
मणयो-नानामणिमयानि दामानि-मालास्तैरलङ्कतं नानामणिदामालतम् अन्तर्य हिश्च 'श्लणं' श्लक्ष्णपुद्गलस्कन्धनिर्मापितं 'तवणिजवालुयापत्थडे' इति तपनीयाः-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तट:-प्रस्तारो यस्मिन् तत्तथा, 'मुहफासे सस्सिरीय-
रूवे पासाईए जाव पडिरूवें इति प्राग्वत् ॥ 'विजयस्स णं दारस्से' त्यादि, विजयस्य णमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैकहै नैषेधिकीभावेन 'दुहतो' इति द्विधातो द्विप्रकारायां नैपेधिक्यां, नैपेधिकी-निपीदनस्थानम् , उक्तं च मूलटीकाकारेण-नैपेधिकी नि
पीदनस्थान"मिति प्रत्येकं द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, ते च चन्दनकलशाः 'वरकमलपइटाणा'इति वरं-प्रधानं यत्कमलं तत्प्रतिष्ठानंआधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:-चन्दनकृतोपरागाः 'आविद्धकंठेगुणा' इति आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषु ते आविद्धकण्ठेगुणाः, कण्ठेकालवत्सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति पग्रमुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधानाः 'सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् 'महयामहया' इति अतिशयेन महान्तो महेन्द्रकुम्भसमानाः, कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन्! ॥'विजयस्स णमित्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनैपेधिकीभावेन द्विधातो नैपेधिक्यां द्वौ द्वौ 'नागदन्तकौ'नर्कुटको अङ्कटकावित्यर्थः प्रज्ञप्ती, ते च नागदन्तका 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिंखिणीजालपरिक्खित्ता' इति मुक्काजालानामन्तरेषु यानि उत्सृतानि-लम्बमानानि हेमजालानि-हेममयदामसमूहाः यानि च गवाक्षजालानि-आवाक्षाकृतिरनविशेपदामसमूहाः यानि च किक्किणी-शुद्रघण्टा किङ्किणीजालानि-शुद्रघण्टा(सकाता)स्तैः परिक्षिप्ता:-सर्वतो व्याप्ताः 'अन्भुग्गया' इति अभिमुखमुद्गता अभ्युद्गता अप्रिमभागे मनाग उग्रता
॥२०५॥