________________
कर
वाप्यादय आसवमिय-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसबोदकाः, अप्येकका वारुणस्य वारुणसमुद्रस्येव उदकं यासां । ३ प्रतिपत्ती ता वारुगोदकाः, अप्येककाः क्षीरमिवोदकं यास ताः क्षीरोदकाः, अप्येकका घृतमिवोदकं यासां ता घृतोदकाः, अप्येककाः क्षोद
मनुष्या० 8 इव-इक्षुरस इव उदकं यास ताः क्षोदोदकाः, अप्येकका अमृतरससमरसमुदकं यासां ता अमृतरससमरसोदकाः, अप्येकका अमृत-४ वनखण्डारसेन स्वाभाविकेन प्रज्ञप्ताः, 'पासाईया(ओ)' इत्यादि विशेषणचतुष्टयं प्राग्वत् , तासां क्षुल्लिकानां यावद्विलपतीनां प्रत्येकं २ चतुर्दिशि है
धि० चत्वारि, एकैकस्यां दिशि एकैकभावात् , 'त्रिसोपानप्रतिरूपकाणि' प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां उद्देशः १ समाहारनिसोपानं त्रिसोपानानि च तानि प्रतिरूपकाणि चेति विशेपणसमासः, विशेषणस्य परनिपातः प्राकृतत्वात् , तानि प्रज्ञप्ता नि, 8 सू० १२७ तेषां च त्रिसोपानप्रतिरूपकाणाम् 'अयं वक्ष्यमाण: 'एतद्रूपः' अनन्तरं वक्ष्यमाणखरूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा ,
-'वज्रमयाः' वनरत्नमया 'नेमाः' भूमेरू निष्क्रामन्तः प्रदेशाः 'रिष्ठमयाः' रिष्ठरत्नमया: 'प्रतिष्ठाना' त्रिसोपानमूलपादा वै-* डूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि वज्रमयानि वज्ररत्नापूरिताः सन्धयः-फलकद्वयापान्तरालप्रदेशाः
लोहिताक्षमय्यः सूच्या-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः नानामणिमया अवलम्व्यन्ते इति अवलम्बना-अवतरता* मुत्तरतां चालम्बने हेतुभूता अवलम्बनबाहातो विनिर्गताः केचिदवयवाः 'अवलंबणवाहाओ' इति अवलम्बनबाहा अपि नानामणिमयाः,
अवलम्बनबाहा नाम उभयोः उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां प्रत्येक प्रत्येक तोरणानि प्रज्ञप्तानि, तेपां च तोरणानामयमेतद्रूपो 'वर्णावासः' वर्णक निवेश:*
॥१९८॥ प्रज्ञप्तः, तद्यथा-ते.ण तोरणा नाणामणिमया' इत्यादि, तानि तोरणानि नानामणिमयानि, मणय:-चन्द्रकान्तादयः, विविधम