________________
सुखोत्ताराः ततः पूर्वपदेन विशेषणसमास: 'नाणामार्णतित्थसुबद्धाओ' इति नानामणिभिः - नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामणितीर्थसुबद्वा:, अत्र बहुव्रीहावपि कान्तस्य परनिपातो भार्यादिदर्शनात्प्राकृतशैलीवशाद्वा, 'चउक्कोणाओ' इति चत्वारः कोणा यस्यां सा चतुष्कोणाः एतच्च विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं तेषामेव चतुष्कोणत्वसम्भवात् न शेषाणां, तथा आनुपूर्वेण - क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्ठु - अतिशयेन यो जातो वप्रः - केदारो जलस्थानं तत्र गम्भीरं - अलब्धस्थानं शीतलं ' जलं यासु ता आनुपूर्व्य सुजातवप्रगम्भीर शीतलजला: 'संछण्णपत्तभिसमुणालाओ' संछन्नानि - जलेनान्तरितानि पत्रविमृणालानि यासु ताः संछन्नपत्र बिसमृणाला:, इह बिसमृणालसाहचर्यात्पत्राणि - पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि - कन्दा मृणालानि - पद्मनालाः, तथा बहुभिरुत्पलकुमुदन लिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्र केसरफुल्लोपचिताः, तथा षट्पदैः - भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि च यासु ताः षट्पदपरिभुज्यमानकमलाः, तथाऽच्छेन - स्वरूपतः स्फटिकवच्छुद्धेन विमलेन - आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णा:, तथा 'पंडिहत्था' अतिरेकिता: अतिप्रभूता इत्यर्थः " पडिहत्थमुद्धुमायं अहिरेइयं च जाण आउ” इति वचनात् उदाहरणं चात्र- "घणपडिहत्थं गयणं सराई नवसलिलसुङ ( उछु ) मायाई । अहिरेइयं महं उण चिंताएँ मणं तुहं विरहे ॥ १ ॥” इति भ्रमन्तो मत्स्यकच्छपा यत्र ताः पडिहत्यभ्रमन्मत्स्यकच्छपाः, तथाऽनेकैः - शकुन मिथु | नकैः प्रविचरिता - इतस्ततो गमनेन सर्वतो व्याप्ता अनेकशकुनमिथुनकप्रविचरिताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरःपङ्क्तिपर्यवसानाः प्रत्येकं प्रत्येकमिति, एकमेकं प्रति प्रत्येकम्, अन्त्राभिमुख्ये प्रतिशब्दो न वीप्साविवक्षायां पञ्चात्प्रत्येकशब्दस्य द्विर्वचनमिति, पद्मवर वेदिकया परिक्षिप्ताः प्रत्येकं वनपण्डपरिक्षिप्ताञ्च 'अप्पेगतियाओ' इत्यादि, अपिर्वाढार्थे बाढमेककाः - काञ्चन