________________
३ प्रतिपत्ती मनुष्या० वनखण्डा
धि० * उद्देशः१
सू०१२६
→ना भवन्ति, तद्यथा-"नंदी य खुट्टिमा पूरिमा य चोत्थी अ सुद्धगंधारा । उत्तरगन्धारावि य हवई सा पंचमी मुच्छा ॥१॥सुहुमुत्तरआयामा छट्ठी सा नियमसो उ बोद्धव्वा । उत्तरमंदा य तहा हेवई सा सत्तमी मुच्छा ॥२॥" अथ किंवरूपा मूर्च्छनाः?, 2 उच्यते, गान्धारादिस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा थान् कुर्वन्नास्तां श्रोतृन मूञ्छितान करोति किन्तु स्वयमपि
मूच्छित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूच्छौ करोति, तथा चोक्तम्-"अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया। कत्तावि मुच्छितो इव कुणए मुच्छं व सोवेति ॥१॥" गान्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दाभिधाना मूर्च्छना किलातिप्रकर्षप्राप्ता ततस्तदुत्पादनया च मुख्यवृत्त्या वादयिता मूञ्छितो भवति, परमभेदोपचारात् वीणाऽपि मूञ्छितेत्युक्ता, साऽपि यद्यके सुप्रतिष्ठिता न भवति ततोन मूर्च्छनाप्रकर्ष विद्धाति तत आह-अङ्के-स्त्रियाः पुरुषस्य वा उत्सङ्गे सुप्रतिष्ठितायाः, तथा कुशलेनवादननिपुणेन नरेण पुरुषेण नार्या वा सुष्ठु-अतिशयेन सम्यग् गृहीतायाः, तथा चन्दनस्य सारः चन्दनसारस्तेन निर्मापितो यः कोणोवादनदण्डस्तेन परिघट्टितायाः-संस्पृष्टायाः 'पच्चूसकालसमयंसि' इति 'प्रत्यूषकालसमय प्रभातवेलायां, कचित् 'पुवरत्तावरत्तकालसमयंसि' इति पाठस्तत्र प्रदोषसमये प्रात.समये चेत्यर्थः, 'मन्दं मन्दं' शनैः शनैः 'एजिताया' चन्दनसारकोणेन मनाक्
कम्पिताया: 'व्येजितायाः' विशेषत: कम्पितायाः, एतदेव पर्यायेण व्याचष्टे-चालितायास्तथा घट्टितायाः, ऊ घोगच्छता चन्दनसार- कोणेन गाढतरं वीणादण्डेन सह तव्याः स्पृष्टाया इत्यर्थः, तथा 'स्पन्दिताया' नखाप्रेण स्वरविशेषोत्पादनार्थमीपचालितायाः 'क्षो
भितायाः' मूछी प्रापिताया ये 'उदारा' मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, 'स्यात्' कथञ्चिद् * भवेदेतद्रूपस्तेषां तृणानां मणीनां च शब्दः १, भगवाना-नायमर्थः समर्थः, पुनरपि गौतमः प्राह स यथा नामकः-किंनराणां वा
॥१९३॥