________________
नास्तुरगास्ते सुष्ठ-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः, प्राकृतत्वाद् बहुव्रीहावपि निष्ठान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्येऽतिशयेन छेको-दक्षः सारथिस्तेन सुप्तु सम्यकपरिगृहीतस्य, तथा 'सरसयबत्तीसतोणमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत्तोणानि च-बाणाश्रयाः शरशतद्वात्रिंशत्तोणानि तैर्मण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, किमुक्तं भवति ?-एवं नाम तानि द्वात्रिंशच्छरशतधृतानि तूणानि रथस्य | सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि तस्य सङ्ग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कङ्कट-कवचं सह कङ्कटं यस्य स सकङ्कटः सककटोऽवतंसः-शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुपढिप्रभृतीनि नानाप्रकाराणि यानि च कवचखेटकप्रमुखाणि आवरणानि तैर्भूत:-परिपूर्णः, तथा योधानां युद्धं तन्निमित्तं सद्यः प्रगु-1 णीभूतो यः स योधयुद्धसज्जः, ततः पूर्वपदेन सह विशेषणसमासः, तस्येत्थंभूतस्य राजाङ्गणे अन्तःपुरे वा रम्ये वा मणिकुट्टिमतलेमणिबद्धभूमितले अभीक्ष्णमभीक्ष्णं मणिको(कु)ट्टिमतलप्रदेशे राजाङ्गणप्रदेशे वा 'अभिघट्टिजमाणसे'ति अभिघट्टयमानस्य वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दा अभिनिस्सरन्ति, 'भवे एयारूवे सिया' इति 'स्यात्' कथञ्चिद् भवेद् एतद्रूपस्तेषां मणीनां तृणानां च शब्दः ?, भगवानाह-नायमर्थः समर्थः, पुनरपि गौतमः प्राह-स यथा नामक:-प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका तालाभावे च वाद्यते इति विताले-तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या-वीणाया 'उत्तरामन्दा मच्छियाए' इति मूर्छनं मूर्छा सा संजाताऽस्या इति मूच्छिता उत्तरमन्दया-उत्तरमन्दाभिधानया मूर्छनया गान्धारखरान्तर्गतया सप्तम्या भूञ्छिता उत्तरमन्दामूछिता, किमुक्तं भवति ?-गान्धारस्वरस्य सप्त मू