________________
किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, किंनरादयो व्यन्तरविशेषाः तेषां कथम्भूतानाम् ? इत्याह- 'भद्रशालवनगतानां वा' इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं प्रथममेखलायां नन्दनवनं शिरसि चूलिकायाः पाषु सर्वतः पण्डकवनं 'महाहिमवंतमलयमन्दर गिरिगुहा समन्नागयाणं' इति महाहिमवान् - हैमवत क्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः, उपलक्षणं शेषवर्षधरपर्वतानां, मलयपर्वतस्य मन्दरगिरेश्व - मेरुपर्वतस्य च गुहा समन्वागतानां वाशब्दा विकल्पार्थाः, एतेषु हि स्थानेषु प्राय: किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम्, 'एगतो सहियाणं ति एकस्मिन् स्थाने सहितानां - समुदितानां 'समुहांगयाणं 'ति परस्परसंमुखागतानां - संमुखं स्थितानां, नैकोऽपि कस्यापि पृष्ठं दत्त्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः, तथा 'समुविद्वाणं' सम्यक् परस्परानाबाधया उपविष्टाः समुपविष्टास्तेषां समुपविष्टानां तथा 'संनिविद्वाण' मिति सम्यक् स्वशरीरानाबाघया न तु विषम संस्थानेन निविष्टाः संनिविष्टास्तेषां 'पमुइयपक्कीलियाणं' ति प्रमुदिताः - प्रहर्षं गताः प्रक्रीडिता: - क्रीडितुमारब्धवन्तस्ततो विशेषणसमासस्तेषां तथा गीते रतिर्येषां ते गीतरतयो गन्धर्व - नाट्यादि तत्र हर्षितमनसो गन्धर्वहर्षितमनसस्ततः पूर्वपदेन विशेषणसमासस्तेषां गद्यादिभेदादष्टविधं गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गद्यं गीयते, यत्र तु पद्यं - वृत्तादि गीयते तत्पद्यं, यत्र कथिकादि गीयते तत्कथ्यं, पदबद्धं यदेकाक्षरादि यथा ते ते इत्यादि, पादबद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम्, 'उक्खित्ताय'मिति उंक्षिप्तकं प्रथमतः समारभ्यमाणं, दीर्घत्वं ककारात्पूर्वं प्राकृतत्वात् एवमुत्तरत्रापि द्रष्टव्यं, 'प्रवृत्त' प्रथमसमारम्भादूर्द्धमाक्षेपपूर्वकप्रवर्त्तमानं 'मंदाय' मिति मन्दकं मध्यभागे सकलमूर्च्छनादिगुणोपेतं मन्दं मन्दं संचरन्, तथा ' रोइयावसाणं' ति रोचितंसम्यग्भावितमवसानं यस्य तद् रोचितावसानं, शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद् रोचितावसानमिति भाव:, तथा