________________
इति, इह पुटैः परिमितानि यानि कोष्ठादिगन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात्कोष्ठपुटानीत्युच्यन्ते तेपां 'कुयमानानाम्' उदूखले कुट्टयमानानां 'रुविजमाणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानाम्, एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनाम् , "उकिरिजमाणाण वा' इति क्षुरिकादिभिः कोष्ठादिपुटानां कोष्ठादिद्रव्याणां वा उत्कीर्यमाणानां 'विक्खरिज्जमाणाण वा' इति 'विकीर्यमाणानाम्' इतस्ततो विप्रकीर्यमाणानां 'परिभुजमाणाण वा' परिभोगायोपभुज्यमानानां, कचित्पाठः परिभाएजमाणाण वा' इति, तत्र 'परिभाज्यमानानां' पार्श्ववर्तिभ्यो मनाग २ दीयमानानां 'भंडाओ भंडं साहरिजमाणाण वा' इति 'भाण्डात्' स्थानादेकस्माद् अन्यद् भाण्डं-भाजनान्तरं संहिर माणानाम् 'उदाराः' स्फाराः, ते चामनोज्ञा अपि स्युरत आह-'मनोज्ञाः' मनोऽनुकूलाः, तच्च मनोज्ञत्वं कुतः ? इत्याह-'मनोहराः' मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः, यतस्ततो मनोहरत्वं कुतः ? इत्याह-प्राणमनोनिर्वृतिकराः, एवंभूताः । सर्वासु दिक्षु 'समन्ततः' सामस्त्येन गन्धाः 'अभिनिःस्रवन्ति' जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-'भवे ए. यारूवे' इत्यादि प्राग्वत् ।। तेषां मणीनां तृणानां च कीदृशः स्पर्शः प्रज्ञप्तः ?, भगवानाह-गौतम! 'से जहा नाम ए' इत्यादि, तद्यथा-'अजिनक' चर्ममयं वस्त्रं रूतं च प्रतीतं 'वरः' वनस्पतिविशेष: 'नवनीतं' म्रक्षणं हंसगर्भतूली शिरीपकुसुमनिचयश्च प्रतीतः 'बालकुमुदपत्तरासीइ वेति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, कचित् बालकुसुमपत्रराशिरिति पाठः, 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ 'तेसि णं भंते !' इत्यादि, तेषां भदन्त ! तृणानां पूर्वापरदक्षिणोत्तरागतैर्वातैः 'मन्दायं मन्दाय'मिति मन्द मन्दम् ‘एजितानां' कम्पितानां 'व्येजितानां' विशेपतः कम्पितानाम् , एत