SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ SSA * विशेषः शङ्खचन्द्रकुमुदोदकरजोदधिधनक्षीरक्षीरपूरक्रोचावलिहारावलिहंसावलिवलाकावलयः प्रतीता: 'चन्द्रावली' तडाकादिपु ४ ३ प्रतिपत्ती जलमध्यप्रतिविम्बितचन्द्रपति. 'सारइयत्रलाहगेइ वा' इति शारदिक:-शरत्कालभावी बलाहको-मेघः 'धंतधोयरुप्पपट्टेइ वे'ति, मनुष्याः ध्मात:-अग्निसंपर्केण निर्मलीकृतो धौतो-भूतिखरण्टितहस्तसन्मार्जनेनातिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रं स ध्मातधौतरूप्यपट्टा, * वनखण्डाअन्ये तु व्याचक्षते-ध्मातेन-अग्निसंयोगेन यो धौत:-शोधितो रूप्यपट्टः स ध्मातरूप्यपट्टः, शालिपिष्टराशि:-शालिक्षोदपुनः धि० कुन्दपुष्पराशिः कुमुदराशिश्च प्रतीतः, 'सुक्कछेवाडियाइ वा' इति छेवाडी नाम-बल्लादिफलिका, सा च कचिदेशविशेषे शुष्का 5 उद्देशः१ | सती शुक्ला भवति ततस्तदुपादानं, 'पेहुणमिंजियाइ वा' इति पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिञा पेहुणमितिका सा चाति- ; सू०१२६ शुक्छेति तदुपन्यासः, विसं-पद्मिनीकन्दः मृणालं-पद्मतन्तुः, गजदन्तलवगदलपुण्डरीकदलश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः, Dभवेयारूचे' इत्यादि प्राग्वत् ॥ तदेवमुक्तं वर्णखरूपं, सम्प्रति गन्धखरूपप्रतिपादनार्थमाह-'तेसि णं मणीणं तणाण य' इत्यादि, तेषां मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः ?, भगवानाह-से जहा नाम ए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थः, ते यथा नाम गन्धा अभिनिःश्रवन्तीति सम्बन्धः, कोष्ठ-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां, वाशब्दाः सर्वत्रापि समुच्चये, इहैकस्य पुटस्य न तादृशो गन्ध आयाति द्रव्यस्याल्पत्वात् ततो बहुवचनं, तगरमपि गन्धद्रव्यम् , 'एला' प्रतीता: 'चोयगं' गन्धद्रव्यं चम्पकदमनककुद्द्वमचन्दनोशीरमरुवकजातीयूथिकामल्लिकानानमल्लिकाकेतकीपाटलानवमालिकावासकर्पूराणि प्रतीतानि नवरमुशीरं-वीरणीमूलं स्नानमल्लिका-सानयोग्यो मल्लिकाविशेप: एतेपामनुवाते-आघ्रायकविवक्षितपुरुपाणामनुकूले वाते वाति सति 'उद्भिद्यमा-8 ॥१९१॥ नानाम्' उद्घाट्यमानानां, चशब्दः सर्वत्रापि समुच्चये, 'निर्भिद्यमानानां नितरां-अतिशयेन भिद्यमानानां 'कोट्रिजमाणाण वा'% SAMS AASA SANE
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy