________________
मतिरक्तं भवति अर्द्धमतिकृष्णं ततो गुजार्द्धग्रहणं, जपाकुसुमकिंशुककुसुमपारिजातकुसुमजात्यहिलका:-प्रतीताः 'शिलाप्रवालं ४ प्रवालनामा रत्नविशेषः प्रवालाङ्करः तस्यैव रत्नविशेपंस्य प्रवालाभिधस्याङ्करः, स हि प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिनाम रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोकरक्तकणवीररक्तवन्धुजीवाः प्रतीताः 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ 'तत्थ ण'मित्यादि, तत्र तेपां मणीनां तृणानां च मध्ये ये हरिद्रा मणयस्तृणानि च तेपामयमेतद्रूपो 'वर्णावासः' वर्णकविशेप: प्रज्ञप्तः, तद्यथा-'से जहा नाम ए' इत्यादि, स यथा नाम-चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः "च म्पकच्छल्ली' सुवर्णचम्पकत्वक् 'चम्पकभेदः' सुवर्णचम्पकच्छेदः 'हरिद्रा' प्रतीता 'हरिद्राभेदः' हरिद्राच्छेदः 'हरिद्रागुलिका' | हरिद्रासारनिर्वतिता गुलिका 'हरितालिका' पृथ्वीविकाररूपा प्रतीता 'हरितालिकाभेदः' हरितालिकाच्छेदः 'हरितालिकागुलिका' हरितालिकासारनिर्वर्तिता गुटिका 'चिकुर' रागद्रव्यविशेष: 'चिकुरागरागः' चिकुरसंयोगनिमित्तो वस्त्रादौ रागः, वरकनकस्यजात्यसुवर्णस्य यः कषपट्टके निघर्पः स वरकनकनिघर्षः, वरपुरुपो-वासुदेवस्तस्य वसनं वरपुरुषवसनं, तद्धि किल पीतमेव भवतीति तदुपादानम् , अ(स)ल्लकीकुसुमं लोकतोऽवसेयं 'चम्पककुसुम' सुवर्णचम्पककुसुमं 'कूष्माण्डीकुसुम' पुष्पफलीकुसुमं कोरण्टक:-18 पुष्पजातिविशेषस्तस्य दाम कोरण्टकदाम तडवडा आउली तस्याः कुसुमं तडवडाकुसुमं घोषातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं सुहरिण्यका-वनस्पतिविशेषस्तस्याः कुसुमं सुहरिण्यकाकुसुमं वीयको-वृक्ष: प्रतीतस्तस्य कुसुमं वीयककुसुमं पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीता: 'भवे एयारूवे इत्यादि प्राग्वत् ॥ 'तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते शुक्ला मणयस्तृणानि च तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-'से जहा नाम ए' इत्यादि, स यथा नाम-'अङ्क रत्न