________________
॥
शारिका कोकिलाऽपि चक्रवाककलहंससारसा:- प्रतीताः, शेषास्तु जीवविशेषा ठोकतो वेदितव्याः, तथा संपिण्डिता:- एकत्र पिण्डीभूता दृप्ता - मदोन्मत्ततया दुपध्माता भ्रमरमधुकरीणां पहकरा :- सङ्घाताः, 'पहकर ओरोहसंघाया' इति देशीनाममालावचनात्, यत्र ते संपिण्डितदृप्तमधुकरभ्रमरमधुकरीपहकराः, तथा परिलीयमानाः - अन्यत आगत्यागत्य श्रयन्तो मत्ताः पट्पदाः कुसुमासवलोला:किञ्जल्कपानलम्पटा मधुरं गुमगुमायमानाः गुञ्जन्तश्च - शब्दविशेपं च विदधाना देशभागेषु तस्मिन् तस्मिन् देशभागे येषां ते परिलीयमानमत्तपट्पदकुसुमास वलोलमधुरगुमगुमायमानगुञ्जन्तदेशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेष - णसमासः, तथाऽभ्यन्तराणि - अभ्यन्तरवर्त्तीनि पुष्पाणि फलानि च पुष्पफलानि येषां ते तथा, 'वाहिरपत्तच्छन्ना' इति वहि: पत्रैश्छन्ना–व्याप्ता वहि:पत्रछन्नाः, तथा पत्रैञ्च पुष्पैश्च 'अवच्छन्नपरिच्छन्ना' अत्यन्तमाच्छादिताः, तथा 'नीरोगाः ' रोगवर्जिताः ‘अकण्टकाः' कण्टकरहिताः, नैतेषु मध्ये बच्चूलकादिवृक्षाः सन्तीति भाव:, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा त्रिग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासन्नैर्नानाविधैः - नानाप्रकारैर्गुच्छे :- वृन्ताकी प्रभृतिभिर्गुल्मैः - नवमालिकादिभिर्मण्डपैःद्राक्षामण्डपकैरुपशोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः - नानाप्रकारैः शुभैः - मङ्गलभूतैः केतुभिः - ध्वजैर्वहुलाव्याप्ता विचित्रशुभकेतुबहुलाः, तथा 'वाविपुक्खरिणीदीहियासु य निवेसियरम्मजालघरगा' वाप्यः - चतुरस्राकारास्ता एव वृत्ताः पुष्करिण्यः यदिवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः दीर्घिका - ऋजुसारिण्यः वापीपुष्करिणीपु दीर्घिकासु च सुष्ठु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासुनिवेशितरम्यजालगृहकानि, तथा पिण्डिता सती निर्धारिमादूरे विनिर्गच्छन्ती पिण्डिमनीहरिमा वां सुगन्धि-सद्गन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा शुभसुरभिमनोहरा वां
३ प्रतिपत्तौ मनुष्या० वनखण्डा
धि०
उद्देशः १
सू० १२६
॥ १८८ ॥