________________
Bा निपतन्ति, ततोऽवातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह-'अणईइपत्ता' न विद्यते। साईतिः-नाइरिकादिरूपा येषां तान्यनीतीनि अनीतीनि पत्राणि येषां ते अनीतिपत्राः, अनीतिपत्रत्वाचाच्छिद्रपत्राः, 'निद्धयजरढपंडुभरपत्ता' इति निर्द्धतानि-अपनीतानि जरठानि पाण्डूनि पत्राणि येभ्यस्ते नितजरठपाण्डुपत्राः, किमुक्तं भवति?-यानि वृक्षस्थानि
जरठानि पाण्डूनि पत्राणि तानि वातेन निर्दय निर्द्धय भूमौ पात्यन्ते भूमेरपि च प्रायो निर्द्धय नि यान्यत्रापसार्यन्त इति, 'नवह-15 रियभिसंतपत्तंधयारगंभीरदरसणिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन-स्निग्धत्वचा दीप्यमानेन पत्रमारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्रान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैः-निरन्तरविनिर्गतैर्नवतरुणपल्लवैः तथा कोमलै:-मनोज्ञैरुज्ज्वलैः-शुद्धैश्चलद्भिः-ईपत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लवविशेषैः तथा सुकुमारैः प्रवालैः-पल्लवाङ्कुरैः शोभितानि वराङ्कुराणि-वराङ्कुरोपेतानि अप्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लवकोमलोज्ज्वलचलकिशलयसुकुमारप्रवालशोभितवराङ्करामशिखराः, इहाङ्करप्रवालयो: कालकृतावस्थाविशेषाद्विशेषो भावनीयः, "निच्चं कुसुमिया निच्चं मउलिया निच्चं लवइया निच्चं थवइया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुयलिया निच्चं विणमिया निच्चं पणमिया निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियजमलियजुगलियविणमियपणमियसुविभ रिवडंसगधरा' इति पूर्ववत्, तथा शुकबहिणमदनशलाकाकोकिलकोरकभिङ्गारककोंडलजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानां मिथुन:-स्त्रीपुंसयुग्मैर्विचरितं-इतस्ततो गतं यच्च शब्दोन्नतिकम्-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं येषु ते तथा, अत एव सुरम्या:-सुष्ट रमणीयाः, अन शुका:-कीराः बहिणो-मयूरा मदनशलाका
-