________________
-%
A
मस्तीति कन्दवन्तः, एवं स्कन्धवन्तस्त्वग्वन्तः शालावन्तः प्रवालवन्तः पत्रवन्तः पुष्पवन्तः फलवन्तो बीजवन्त इत्यपि भावनीयं, तत्र ३प्रतिपत्तौ . मूलानि-प्रसिद्धानि यानि कन्दस्याधः प्रसरन्ति कन्दास्तेषां मूलानामुपरिवर्तिनस्तेऽपि प्रतीताः, स्कन्धः-स्थुडं यतो मूलशाखाः प्रभवन्ति,*
मनुष्या० त्वक्-छल्ली शाला-शाखा प्रवाल:-पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशायने कचिद्भन्नि वा मतुपप्रत्ययः, 'अणुपु-5 वनखण्डा- ' व्वसुजाइरुइलवभावपरिणया' इति आनुपूा-मूलादिपरिपाट्या सुष्टु जाता आनुपूर्वीसुजाता रुचिला:-स्निग्धतया देदीप्यमान-C
धि० च्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ?-एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च उद्देशः१ प्रसृता यथा वर्तुला: संजाता इति, आनुपूर्वीसुजाताश्च ते रुचिराश्च ते च ते वृत्तभावपरिणताश्च आनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः, तथा ते पादपाः प्रत्येकमेकस्कन्धाः, (समासान्तइन् ) प्राकृते वाऽस्य स्त्रीत्वमिति 'एगखंधी' इति पाठः, तथाऽनेकाभिः शाखाभिः प्रशा
खाभिश्च मध्यभागे विटपो-विस्तारो येषां तेऽनेकशाखाप्रशाखाविटपाः, तथा तिर्यग्वाहुद्वयप्रसारणप्रमाणो व्यामः अनेकैर्नरव्यामैः-पुरुष४ व्यामैः सुप्रसारितैरग्राह्यः-अप्रमेयो घनो-निबिडो विपुलो-विस्तीर्णः स्कन्धो येषां ते अनेकनरव्यामसुप्रसारिताग्राह्यघनविपुलवृत्त
स्कन्धाः, तथाऽच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति ?-न तेषां पत्रेषु वातदोषत: कालदोषतो वा गडरिकादिरीतिरुपजायते, न तेषु पत्रेपु छिद्राणि भवन्तीत्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्यं शाखाप्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरि जातानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यत इति, तथा चाह-'अविरलपत्ता' इति, अत्र हेतौ प्रथमा ततोऽयमर्थः-यतोऽवि-8 रलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा अपि कुतः ? इत्याह-'अवातीनपत्राः' वातीनानि-बातोपहतानि वातेन पातितानीत्यर्थः ॥१८७॥ न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति ?-न तत्र प्रबलो वातः खरपरुषो वाति येन पत्राणि त्रुटित्वा भूमौ
RECRACKASGANGANAGAR