________________
वनपण्डोऽवभासते इति, तथा एते कृष्णनीलहरितवर्णा यथा (तः) स्वस्मिन् रूपेऽत्यर्थमुत्कटाः स्निग्धा भण्यन्ते तीव्राञ्च ततस्तद्योगाद्वनखण्डोऽपि स्निग्धस्तीत्रश्वोक्तः, न चैतदुपचारमात्रं, किन्तु तथा प्रतिभासोऽपि तत उक्तं स्निग्धावभासस्तीत्रावभास इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासः ततो नावभासमात्रोपदर्शनेन यथाऽवस्थितं वस्तुस्वरूपमुक्तं वर्णितं भवति किन्तु यथास्वरूपप्रतिपादनेन ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह - ' किन्हे किण्हच्छाये' इत्यादि, ततोऽकृष्णो वनखण्डः, कुत: ? इत्याह- कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मितिवचनाद्धेतौ प्रथमा, यमर्थ:- यस्मात् कृष्णा छाया - आकारः सर्वाविसंवादितया तस्य तस्मात्कृष्णः, एतदुक्तं भवति - सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्त्ववृत्त्या स कृष्णो न भ्रान्तावभासमान व्यवस्थापित इति, एवं नीलो नीलच्छाय इत्याद्यपि भावनीयं, नवरं शीतः शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घणकडियडच्छाए' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटं घना - अन्यान्यशाखा प्रशाखानुप्रवेशतो निविडा कटितटे - मध्यभागे छाया यस्य स घनकटितटच्छायः, मध्यभागे निविडतरच्छाय इत्यर्थः, कचि| त्पाठः 'घनकडियकडच्छाए' इति, तत्रायमर्थः - कटः सञ्जातोऽस्येति कटितः कटान्तरेणोपरि आवृत इत्यर्थः कटितश्चासौ कटश्च कटितकट: घना - निविडा कटितकटस्येवाधोभूमौ छाया यस्य स धनकटितकटच्छायः अत एव रम्यो- रमणीय:, तथा महान् -जलभारावनतः प्रावृट्कालभावी मेघनिकुरम्यो - मेघसमूहस्तं भूतो - गुणैः प्राप्तो महामेघनिकुरम्बभूतः महामेघवृन्दोपम इत्यर्थ: । ' ते णं पायवा' इत्यादि, 'ते' वनपण्डान्तर्गताः पादपा 'मूलवन्तः' मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्त:, कन्द् एपा