________________
RECEBCAMKAR
रत्तं तित्थाणकरणसुद्धं मधुरं समं सुललियं सकुहरगुंजंतवंसतंतीसुसंपउत्तं तालसुसंपउत्तं ताल- २३ प्रतिपत्तौ समं (रयसुसंपउत्तं गहसुसंपउत्तं) मणोहरं मउयरिभियपयसंचारं सुरभि सुणतिं वरचारुरूवं मनुष्या० दिव्वं नई सज्जं गेयं पगीयाणं, भवे एयारूवे सिया?, हंता गोयमा! एवंभूए सिया॥ (सू०१२६) वनपण्डा'तीसे णं जगतीए' इत्यादि, तस्या णमिति पूर्ववत् जगत्या उपरि पद्मवरवेदिकाया बहिर्वर्ती प्रदेशः 'तत्र' तस्मिन् णमिति धि० पूर्ववत् , महानेको वनघण्डः प्रज्ञप्तः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो वनपण्डः, आह च मूलटीकाकारः-'एगजाई- उद्देशः१ * एहिं रुक्खेहि वणं अणेगजाईएहिं उत्तमेहि रुक्खेहि वणसंडे' इति, स चैकैको देशोने द्वे योजने विष्कम्भतो जगतीसमकः 'परिक्षेपेण' सू०१२६ 4 परिरयेण । कथम्भूतः ? इत्याह-'किण्हे' इत्यादि, इह प्रायो वृक्षाणां मध्यमे वयसि वर्त्तमानानि पत्राणि नीला (कृष्णा)नि तद्योगाद् 7 वनखण्डोऽपि कृष्ण , न चोपचारमात्रात्कृष्ण इति व्यपदेशः किन्तु तथाप्रतिभासनात् , तथा चाह-कृष्णावभासः' यावति भागे
कृष्णानि पत्राणि सन्ति तावति भागे स वनखण्डः कृष्णोऽवभासतेऽतः कृष्णोऽवभासो यस्यासौ कृष्णावभासः, तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद् वनखण्डोऽपि नीलः, न चैतदप्युपचारमात्रेणोच्यते किन्तु तथाऽवभासात्,
तथा चाह-नीलावभासः, समासः प्राग्वत्, यौवने तान्येव पत्राणि किशलयत्वं रक्तवं चातिक्रान्तानि ईपद्धरितालाभानि पाण्डूनि ॐ सन्ति हरितानीत्युपदिश्यन्ते, ततस्तद्योगाद्वनपण्डोऽपि हरितः, न चैतदुपचारमात्रं, किन्तु तथाप्रतिभासोऽप्यस्ति तथा चाह-हरिता-8 वभासः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगाद् वनपण्डोऽपि शीतः, न चासौ न गुणतः किन्तु
॥१८६॥ गुणत एव, तथा चाह-शीतावभासः' अधोभागवर्तिनां व्यन्तराणां देवानां देवीनां च तद्योगे शीतवातसंस्पर्शः ततः स शीतो