________________
पुञ्छनीनामुपरि कवेलुकानामध आच्छादनम् ॥ 'सा ण'मित्यादि, 'सा' एवंवरूपा णमिति वाक्यालङ्कारे पद्मवरवेदिका तत्र तत्र प्रदेशे एकैकेन 'हेमजालेन' सर्वासना हेममयेन लम्बमानेन दामसमूहेन एकैकेन 'गवाक्षजालेन' गवाक्षाकृतिरत्नविशेषदामसमूहेन । एकैकेन 'किडिणीजालेन' किङ्किण्य:-क्षुद्रघण्टिकाः एकैकेन घण्टाजालेन, किङ्किण्यपेक्षया किञ्चिन्महत्यो घण्टा घण्टाः, तथा एकैकेन 'मुक्ताजालेन' मुक्ताफलमयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसमूहेन एकैकेन 'कनकजालेन' कनकंपीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रत्नजालेन एकैकेन (वर) पद्मजालेन-सर्वरत्नमयपद्मासकेन दामसमूहेन 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सर्वासु विदिक्षु परिक्षिप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानानि वेदितव्यानि, तथा चाह-'ते णं जाला' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , प्राकृते हि लिङ्गमनियतमिति, णमिति पूर्ववत् हेमजालादीनि क्वचित् दामा इति पाठः तत्र ता हेमजालादिरूपा दामान इति व्याख्येयं, 'तवणिज्जलंवूसगा' तपनीयम्-आरक्कं सुवर्ण तन्मयो लम्बूसगो-दानामग्रिमभागे मण्डनविशेषो येषां तानि तपनीयलम्बूसकानि 'सुवण्णपयरगमंडिया' इति पार्श्वतः सामस्त्येन| सुवर्णप्रतरकेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, 'नाणामणिरयणविविहहारद्धहारउवसोभियसमुदया' इति ना
नारूपाणां मणीनां रत्नानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां | ४ तानि, तथा 'ईसिमन्नमन्नमसंपत्ता' इति ईषत्-मनाग अन्योऽन्यं-परस्परमसंप्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैर्वातैः ।। |'मंदायं मंदाय' इति मन्दं मन्दम् एज्यमानानि-कम्प्यमानानि 'भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः' इत्यविच्छेदे द्विर्वचनं : यथा पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईपत्कम्पनवशादेव च प्रकर्पत इतस्ततो मनाक् चलनेन लम्वमानानि प्रलम्बमानानि, ततः