________________
परस्परसंपर्कवशत: 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि शब्दायमानानि 'उदारेण' स्फारेण शब्देनेति योगः स च स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह- 'मनोज्ञेन' मनोऽनुकूलेन, तथ मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह-- 'मनोहरण' मनांसि श्रोतॄणां हरति - आत्मवशं नयतीति मनोहरः, 'लिहादे'राकृतिगणत्वादच्प्रत्यय:, तेन तदपि मनोहरत्वं कुत: ? इत्याहकर्णमनो निर्वृत्किरेण --- ' निमित्तकारणहेतुपु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनाद् हेतौ तृतीया, ततोऽयमर्थः-यतः श्रोतृकर्णयोर्मनसश्च निर्वृतिकरः - सुखोत्पादकस्ततो मनोहरस्तेन, इत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् 'सर्वतः' दिक्षु 'समततः विदिक्षु आपूरयन्ति शत्रन्तस्य शाविदं रूपं तत एव 'श्रिया' शोभयाऽतीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति ॥ 'तीसे ण' मित्यादि, तस्याः पद्मवर वेदिकायास्तत्र तत्र देशे २ 'तहिं तहिं' इति तस्यैव देशस्य तंत्र तत्रैकदेशे, एतावता किमुक्तं भवति ? - यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवे 'हयसंघाडा' हययुग्मानि सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इत्यत्र, एवं ग़जनरकिंनरकिंपुरुषमहोरगगन्धर्ववृपभसङ्घाटा अपि वाच्याः, एते च कथम्भूताः ? इत्याह-- 'सव्वरयणामया' सर्वात्मना रनमया: 'अच्छा' आकाशस्फटिकवदतिखच्छाः 'जाव पडिरुवा' इति यावत्करणात् 'सण्हा उण्हा घडा मठ्ठा' इत्यादिविशेषणकदम्बकपरिग्रहस्तश्च प्राग्वत् । एते च सर्वेऽपि हयसहाटादयः सङ्घाटाः पुष्पावकीर्णका उक्ताः सम्प्रत्येतेषामेव हयादीनां पतयादिप्रतिपादुनार्थमाह- 'एवं पंतीओ वीहीओ एवं मिहुणगा' इति यथाऽमीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्क्योऽपि वक्तव्या बीथयोऽपि मिथुनकानि च तानि चैवम्— 'तीसे णं परमवरवेश्याए तत्थ तत्थ देसे देसे तहिं तहिं बहुयाओ हयपंतीओ गयपतीओं' इत्यादि, नवरमेकस्यां दिशि या श्रेणिः सा पतिरभिधीयते, उभयोरपि पार्श्वयोरेकैक श्रेणिभावेन यच्छ्रेणिद्वयं सा वीथी, एते च नीथी
३ प्रतिपत्त
मनुष्या० पद्मवरवे
दिकाव०
उद्देशः १
सू० १२६
॥ १८१ ॥