________________
रथस्य - रथाङ्गस्य चक्रस्यावयवे समुदायोपचाराश्चक्रवालं - मण्डलं तस्यैव यत् संस्थानं तेन संस्थितो रथचक्रवालसंस्थानसंस्थितः, एवं वृत्तः पुष्करकर्णिकासंस्थानसंस्थितः पुष्करकर्णिका - पद्मबीजकोश: वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः पदद्वयं भावनीयम्, एतेन जम्बूद्वीपस्य संस्थानमुक्तम् ॥ सम्प्रत्यायामादिपरिमाणमाह - 'एकं ण' मित्यादि, एकं योजनशतसहस्रमायामविष्कम्भेन, आयामश्च विष्कम्भा आयामविष्कम्भं, समाहारो द्वन्द्वः, तेन, आयामेन विष्कम्भेन चेत्यर्थः, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजन| शते सप्तविंशत्यधिके त्रयः क्रोशा अष्टाविंशम् - अष्टाविंशत्यधिकं धनुःशतं त्रयोदशाङ्गुलानि अर्द्धाङ्गुलं च किञ्चिद्विशेषाधिकमित्येतावान् परिक्षेपेण प्रज्ञप्तः, इदं च परिक्षेपपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ ।' इति करणवशात्स्वयमानेतव्यं क्षेत्रसमासटीका वा परिभावनीया, तत्र गणितभावनाया: सविस्तरं कृतत्वात् ॥ सम्प्रत्याकारभावप्रत्यवतारप्रतिपादनार्थमाह-- 'से ण' मित्यादि, 'सः' अनन्तरोक्तायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपो णमिति वाक्यालङ्कारे एकया जगत्या सुनगरप्राकारकल्पया 'स|र्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 'संपरिक्षिप्तः' सम्यग्वेष्टितः ॥ ' सा णं जगई' इत्यादि, सा च जगती ऊर्द्धम् - उच्चैस्त्वेनाष्टौ योजनानि मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा, मध्ये संक्षिप्ता त्रिभागोनत्वात् उपरि तनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात्, एतदेवोपमया प्रकटयति – 'गोपुच्छ संठाणसंठिया ' गोपुच्छस्येव संस्थानं गोपुच्छसंस्थानं तेन संस्थिता गोपुच्छसंस्थानसंस्थिता ऊर्द्धाकृतगोपुच्छाकारा इति भावः, 'सव्ववइरामई' सर्वामना-सामस्त्येन वज्रमयी - वरत्नामिका 'अच्छा' आकाशस्फटिकवतिस्वच्छा 'सण्हा लण्हा' लक्ष्णा श्लक्ष्णपुद्गलस्कन्धनिष्पन्ना ल क्ष्णदल निष्पन्नपटवत् 'लम्हा ' मसृणा घुण्टितपटवत् 'घट्ठा' घृष्टा इव घृष्टा खरशानया पाषाणप्रतिमावत् 'मट्ठा' मृष्टा इव मृष्टा सुकु