________________
३ प्रतिपत्तौ देवाधि
कारः उद्देशः १ सू० १२४
.
..
टू
-
गोपुच्छसंठाणसंठिता सव्ववइरामई अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिम्मला णिपंका णिककडच्छाया सप्पभा समिरीया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ॥ साणं 'जगती एक्केणं जालकडएणं सव्वतो समंता संपरिक्खित्ता ॥ से णं जालकडए णं अद्धजोयणं उर्ल्ड उच्चत्तेणं पंचधणुसयाई विक्खंभेणं सव्वरयणामए अच्छे सण्हे लण्हे (जाव) [घढे मढे णीरए णिम्मले णिप्पंके णिकंकडच्छाए सप्पभे [सस्सिरीए] समरीए सउज्जोए पासादीए दरिसणिज्जे
अभिरुवे] पडिरूवे ॥ (सू० १२४) 'तत्थ ण'मित्यादि, 'तत्र' तेपु द्वीपसमुद्रेषु मध्ये 'अयं यत्र वयं वसामो जम्बूद्वीपो नाम द्वीपः, कथम्भूतः? इत्याह-सर्वद्वीपसमुद्राणां 'सर्वाभ्यन्तरकः' सर्वात्मना-सामस्त्येनाभ्यन्तरः सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः, प्राकृतलक्षणात्स्वार्थे कप्रत्ययः, केषां सर्वात्मनाऽभ्यन्तरकः ?, उच्यते, सर्वद्वीपसमुद्राणां, तथाहि-सर्वेऽपि शेपा द्वीपसमुद्रा जम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगुणविस्तारास्ततो भवति सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरकः, अनेन जम्बूद्वीपस्यावस्थानमुक्तं, 'सव्वखुड्डाग' इति सर्वेभ्योऽपि शेपद्वीपसमुद्रेभ्यः क्षुल्लको-लघुः सर्वक्षुल्लकः, तथाहि-सर्वे लवणायः समुद्राः सर्वे च धातकीखण्डादयो द्वीपा जम्बूद्वीपादारभ्य द्विगुणद्विगुणायामविष्कम्भपरिधयस्ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति, एतेन सामान्यतः परिमाणमुक्तं, विशेषतस्त्वायामादिगतं परिमाणमने वक्ष्यति, तथा
वृत्तोऽयं जम्बूद्वीपो यतस्तैलापूपसंस्थानसंस्थितः, तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक ६ इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तोऽयं जम्यूद्वीपो यतो 'रथचक्रवालसंस्थानसंस्थितः'
॥१७७॥