________________
vixxx
इति मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमावदेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात् 'निर्मलानि' आगन्तुकमलासम्भवात् 'निष्पङ्कानि कलङ्कविकलानि कर्दमरहितानि वा 'निकंकडच्छाया' इति निष्कङ्कटा-निष्कवचा निरावरणा निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि निष्ककटच्छायानि 'सप्रभाणि' वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गतकिरणजालानि 'सोद्द्योतानि' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'प्रासादीयानि प्रसादाय-मनःप्रसत्तये हितानि मनःप्रसत्तिकारीणीति भावः, तथा 'दर्शनीयानि' दर्शनयोग्यानि यानि पश्यतश्चक्षुषी न श्रमं गच्छत इति भावः, 'अभिरुवा' इति अभि-सर्वेषां द्रष्टुणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं येषां तानि अभिरूपाणि-अत्यन्तकमनीयानीत्यर्थः अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं
येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवमिव रूपं येषां तानि प्रतिरूपाणि ॥ तदेवं भवनस्वरूपमुक्तमिदानीं यत्पृष्टं 'क भदन्त ! त भवनवासिनो देवाः परिवसन्ती'ति तत्रोत्तरमाह-'तत्थ णं वहवे भवणवासी देवा परिवसंति असुरा नागा भेदो भाणि-18
यन्वो जाव विहरंति एवं जा ठाणपदे वत्तव्वया सा भाणियव्वा जाव चमरेणं असुरकुमारिंदे असुरकुमारराया परिवसइ' इति, 'तत्र' तेष्वनन्तरोदितस्वरूपेषु भवनेषु बहवो भवनवासिनो देवाः परिवसन्ति, तानेव जातिभेदत आह-'असुरा नागा' इत्यादि यावत्करणादेवं परिपूर्णः पाठः-"असुरा नाग सुवण्णा विज्ज अग्गी य दीव उदही य दिसिपवणथणियनामा दसहा एए भवणवासी॥ १॥ चूडामणिमउडरयणा १ भूसणनागफण २ गरुल ३ वइर ४ पुण्णकलसअंकउप्फेस ५ सीह ६ हयवर ७ गय ८ मगरंक|९ वरवद्धमाण १० निजुत्तचित्तचिंधगया सुरूवा महिडीया महज्जइया महायसा महावला महाणुभागा महासोक्खा हारविराइयवच्छा कडगतुडियर्थभियभुया अंगयकुंडलमट्टगंडतलकण्णा पीढधारी विचित्तहत्थाभरणा विचित्तमालामउली (मउडा) कल्लाणगपवरवत्थप