SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ 11 इति चन्दनघटे:- चन्दनकलशैः सुकृतानि शोभितानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागं—द्वारदेशभागे येषु तानि चन्दनघटसुकृत तोरणप्रतिद्वारदेशभागानि, तथा 'आसत्तोसत्तविपुलवट्ट्वग्घारियमल्लदामकलावा' इति आ-अवाङ् अधोभूमौ सक्त - आसक्तो भूमौ लग्न इत्यर्थः ऊर्द्ध सक्त उत्सक्तः उल्लोचतले उपरि संबद्ध इत्यर्थः विपुलो - विस्तीर्णो वृत्तो- वर्तुलः 'वग्घारिय' इति प्रलम्बितो माल्यदामकलाप :- पुष्पमालासमूहो येषु तानि आसक्तोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा - सुरभिगन्धेन मुक्केन - क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण - पूजया कलितानि पञ्चवर्णसुरभिमुक्तपुष्पपुञ्जोपचारकलितानि, तथा कालागुरुः- प्रसिद्धः प्रवरः - प्रधानः कुन्दुरुष्क :- चीडा तुरुष्कं - सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्भूत - इतस्ततो विप्रसृतस्तेनाभिरामाणि - रमणीयानि कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धुताभिरामाणि तथा शोभनो गन्धो येषां ते सुगन्धाः ते च ते वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगन्धगन्धिकानि 'अतोऽनेकस्वरा' दितीकप्रत्यय:, अत एव गन्धवर्त्तिभूतानि, सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथाऽप्सरोगणानां सङ्घः - समुदायस्तेन सम्यग् - रमणीयतया 'विकीर्णानि व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानामातोद्यानां - वेणुवीणामृदङ्गानां ये शब्दास्तैः संप्रणदितानि - सम्यकश्रोत्रमनोहारितया प्रकर्षेण सर्वकालं नदितानि - शब्दवन्ति दिव्यत्रुटितशब्दसंप्रणदितानि सर्वरत्नमयानि - सर्वाना सामस्त्येन रत्नमयानि न त्वेकदेशेन सर्वरत्नमयानि - समस्तरत्नमयानि अच्छानि - आकाशस्फटिकवदतिस्वच्छानि लक्ष्णानि - लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्णदलनिष्पन्नपटवत् लण्डानि - मसृणानि घुण्डितपटवत् 'घट्टा' इति घृष्टानीव घृष्टानि खरशानया पाषाणप्रतिभावत्, 'महा' ३ प्रतिपतौ देवाधि कार: उद्दशः १ सू० ११७ ॥ १६० ॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy