________________
सर्वत्र सूचिता अन्यथा कपाटानामसम्भवात्, तोरणानि-प्रतीतानि, तानि च प्रतोलीद्वारेषु, प्रतिद्वाराणि-मूलद्वारापान्तरालवर्चीनि लघुद्वाराणि । तथा 'जंतसयग्घिमुसलमुसंदिपरिवारिया' इति यत्राणि-नानाप्रकाराणि शतघ्नयो-महायष्टयो महाशिला वा या: पातिताः सत्यः पुरुषाणां शतानि नन्ति मुशलानि-प्रतीतानि मुषण्ढय:-शस्त्रविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि अत एवायोध्यानि-परैयोद्धमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि सर्वकालं जयवन्तीति भावः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिः सर्वतः-समन्ततो निरन्तरं परिवारिततया परेषामसहमानानां मनागपि प्रवेशासम्भवात् 'अडयालकोट्टरइया' इति अष्टाचत्वारिंशद्भेदभिन्नविच्छित्तिकलिताः कोष्ठका अपवरका रचिताः स्वयमेव रचनां प्राप्ता येषु तान्यष्टाचत्वारिंशत्कोप्टकरचितानि, सुखादिर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथाऽष्टाचत्वारिंशद्भेदभिन्नविच्छित्तयः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये त्वभिधति-अडयालशब्दो देशीवचनात् प्रशंसावाची, | ततोऽयमर्थः-'प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति तथा क्षेमाणि' परकृतोपद्रवरहितानि, 'शिवानि' सदा
मङ्गलोपेतानि, तथा किङ्करा:-किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वा उपरक्षितानि-सर्वतः समन्ततो रक्षितानि किङ्करामरदण्डोपरक्षि| तानि, 'लाउल्लोइयमहिया' इति लाइयं नाम यद्भूमेोमयादिना उपलेपनम् 'उल्लोइयं' कुड्यानां मालस्य सेटिकादिभिः संमृष्टीकरणं लाइयोल्लोइयाभ्यां महितानि-पूजितानि लाइयोल्लोइयमहितानि, तथा गोशीर्षेण-गोशीर्षनामकेन चन्दनेन- सरसरक्तचन्दनेन च दरेण-बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गलयस्तला-हस्तका येषु तानि गोशीर्षसरसरक्तचन्दनर्दरदत्तपञ्चाङ्गलितलानि, तथा उपचिता-निवेशिताः चन्दनकलशा-मङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'चंदणघडसुकयतोरणपडिदुवारदेसभागा'