________________
प्रतिनियतो जीवो विवक्ष्यते किन्तु जीवसामान्यं, ततः प्राणधारणलक्षणजीवनाभ्युपगमेऽपि न कश्चिद्दोष:, तथाहि - 'जीवे णं भंते!" इत्यादि, जीवो णमिति पूर्ववद् भदन्त ! जीव इति -- जीवन्निति प्राणान् धारयन्नित्यर्थः कालतः कियश्चिरं भवति ?, भगवानाह - गौतम ! सर्वाद्धां, जीवसामान्यस्यानाद्यनन्तत्वात् न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं यत उक्तं मूलटीकायां - "जीवे णं भंते इत्यादि, एषा ओघकाय स्थितिः सामान्यजीवापेक्षिणीति सर्वाद्धया निर्वचनम्" । एवं च पृथिवीकायादिष्वप्यदोषः, एतत्सामान्यस्य स - वैदैव भावादिति । एवं गतीन्द्रियकायादिद्वारैर्यथा प्रज्ञापनायामष्टादशे कायस्थितिनामके पदे कायस्थितिरुक्ता तथाऽत्र सर्व निरविशेषं वक्तव्यं यथा उपरि तत्पद्गतं न किमपि तिष्ठति, गतीन्द्रियकायादिद्वारसङ्ग्राहके चेमे गाये - " गइ इंदिए य काए जोगे वेए कसाय लेसा य । सम्मत्तनाणदंसणसंजयडव ओगआहारे ॥ १ ॥ भासगपरित्तपज्जत्तसुहुम सण्णी भवऽत्थि चरिमे य । एएसिं तु पयाणं कायठिई होइ नायव्वा ॥ २ ॥ सूत्रपाठस्तु लेशतो दर्श्यते - "नेरइया णं भंते! णेरइयत्ति कालतो केवश्चिरं होइ ?, गोयमा ! जहनेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाई । तिरिक्खजोणिए णं भंते! तिरिक्खजोणियत्ति कालतो केवश्चिरं होइ ?, गोयमा। जहन्नेणं अंतोमुहुत्तमुक्कोसेणमणतं कालं अनंता उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेज्जा पुग्गलपरियट्टा आवलियाए असंखेज्जइभागो" इत्यादि ॥ सम्प्रति सामान्यपृथिवीकायादिगतकायस्थितिनिरूपणार्थमाह - 'पुढविक्काइए णं भंते!' इत्यादि, पृथिवीकायिको भदन्त ', सामान्यरूपोऽत एव जातावेकवचनं न व्यक्तयेकत्वे, पृथिवीकाय इति कालतः कियचिरं भवति ?, भगवानाह - गौतम ! सर्वाद्धां, पृथिवीकायसामान्यस्य सर्वदैव भावात् । एवमप्तेजोवायुवनस्पतित्रसकायसूत्राण्यपि भावनी - यानि || सम्प्रति विवक्षिते काले जघन्यपदे उत्कृष्टपदे वा कियन्तोऽभिनवा उत्पद्यमानाः पृथिवीकायिकादयः ? इत्येतन्निरूपणार्थमाह