________________
-8 सकरा य खरपुढवी । इगवारचोइससोलढारबावीससमसहसा ॥ २ ॥) लक्ष्णपृथिव्या एकं वर्षसहस्रमुत्कर्पत: स्थितिः, शुद्धप- ३प्रतिपत्तो
थिव्या द्वादश वर्षसहस्राणि, वालुकापृथिव्याश्चतुर्दश सहस्राणि, मनःशिलापृथिव्याः पोडश वर्षसहस्राणि, शर्करापृथिव्या 5 तिर्यगुअष्टादश वर्षसहस्राणि, खरपृथिव्या द्वाविंशतिवर्पसहस्राणि, सर्वासामपि चामीपां पृथिवीनां जघन्येन स्थितिरन्तर्मुहूर्त वक्तव्या ॥6 देशः२ सम्प्रति स्थितिनिरूपणाप्रस्तावान्नैरयिकादीनां चतुर्विंशतिदण्डकक्रमेण स्थिति निरूपयितुकाम आह-'नेरइयाणं भंते!' इत्यादि, सू० १०३ नैरयिकाणां भदन्त! कियन्तं कालं स्थितिः प्रजाता?, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुर्विशतिदण्डकक्रमेण तावद्वक्तव्यं यावत्सर्वार्थसिद्धविमानदेवानां स्थितिनिरूपणा, इह तु प्रन्थगौरवभयान्न लिख्यते ॥ तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति कायस्थितिनिरूपणार्थमाह-'जीवेणं भंते !' इत्यादि, अथ कायस्थितिरिति कः शब्दार्थः ?, उच्यते, कायो नाम जीवस्य विवक्षितः सामान्यरूपो विशेपरूपो वा पर्यायविशेपस्तस्मिन् स्थिति: काय स्थिति:, किमुक्तं भवति ?-यस्य वस्तुनो येन पर्यायेण-जीवत्वलक्षणेन पृथिवीकायादित्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं सा काय स्थितिः, तत्र जीव इति "जीव प्राणधारणे" जीवति-प्राणान् धारयतीति जीवः, प्राणाश्च द्विधा-द्रव्यप्राणा भावप्राणाश्च, तत्र द्रव्यप्राणा आयुःप्रभृतयः, उक्तश्च-"पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्विरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" भावप्राणा ज्ञानादयः यैर्मुक्तोऽपि जीवतीति व्यपदिश्यते, उक्तश्व-"ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तेही"ति, इह च विशेपानुपादानादुभयेपामपि प्रहणं णमिति वाक्यालकारे भदन्त जीव इति-जीवनपर्यायविशिष्टः कालत:-कालमधिकृत्य कियगिरं भवति ?, भगवानाह-सर्वाद्धां, संसार्यवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्त्यवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात् , अथवा जीव इति न एकः
है ॥१४॥
HAMAREIGARSHANGANGANGANG+
RECASCHICAGAR