________________
त्तिर्यगादिषु चोत्तरवैक्रियावस्थानकालमानमाह-भिन्नः-खण्डो मुहूत्तों भिन्नमुहूर्त: अन्तर्मुहूर्त्तमित्यर्थः, नरकेपूत्कर्पतो विकुर्वणास्थितिकालः, निर्यकानप्येष चत्वार्यन्तर्महानि, देवेष्वर्द्धमास उत्कर्पतो विकुर्वणाऽवस्थानकालः भणितः एप उत्कर्पतो विकुर्वणाऽवस्थानकालो भणिततीर्थकरगणधरैः॥ सम्प्रति नरकेष्वाहारादिस्वरूपमाह-ये पुद्गला अनिष्टा नियमात्स तेषां भवत्याहारः, 'संस्थानं त' संस्थानं पुनस्तेषां हण्डं हण्डमपि जघन्यमतिनिकृष्टमनिष्टं वेदितव्यं, एतच भवधारणीयशरीरमधिकृत्य वेदितव्यम्, उत्तरवैक्रियसंस्थानस्याग्रे वक्ष्यमाणत्वात, इयं च प्रागुक्तार्थसङ्ग्रहगाथा ततो न पुनरुक्तदोषः ॥ सम्प्रति विकुर्वणाखरूपमाह-सर्वेषां नैरयिकाणां विकर्वणा खल, निश्चितमशभा भवति, यद्यपि शुभं विकुर्विष्याम इति ते चिन्तयन्ति तथाऽपि तथाविधप्रतिकुलकर्मोदयतस्तेपामशभैव विकर्वणा भवति. तदपि च वैक्रियं-उत्तरवैक्रियशरीरमसंहननम् , अस्थ्यभावात् , उपलक्षणमेतत् भवधारणीयं च वैक्रियशरीरमसंहननं, तथा हुण्डसंस्थानं तत् उत्तरवैक्रियशरीरं, हुण्डसंस्थाननाम्न एव भवप्रत्ययत उदयभावात् ॥ कश्चित् जीव: 'सर्वास्वपि पृथिवीयु' रत्नप्रभादिपु तमस्तमापर्यन्तास सर्वेष्वपि च 'स्थितिविशेषेषु' जघन्यादिरूपेषु 'असातः' असातोदयकलित उपपन्नः, उत्पत्तिकालेऽपि प्राग्भवमरणकालानुभूतमहादुःखानुवृत्तिभावात् , उत्पत्त्यनन्तरमपि 'असात एव' असातोदयकलित एव सकलमपि निरयभवं 'त्यजति अपयति, न तु जातुचिदपि सुखलेशमप्यास्वादयति ॥ आह-किं तत्र कदाचित्सातोदयोऽपि भवति येनेदमुच्यते?, उच्यते, भवति, तथा चाह-उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले 'सातं' सातवेदनीयकर्मोदयं कश्चिद्वेदयते, यः प्राग्भवेदाघच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसक्र्ष्टिाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धमाधिरूपं दुःखें नापि क्षेत्रस्वभावजं नापि परमाधार्मिककृतं नापि परस्परोदीरितं तत एवंविधदुःखाभावादसौ सातं कश्चित् वेदयते इत्युच्यते, 'देवकम्मुणा वावि' इति देवकर्मणा