________________
दिकृतो वेदितव्यः, इष्टकापाक इति वा कुम्भकारापाक इति वा कवेल्लुकापाक इति वा लोहकाराम्बरीष इति वा, अम्बरीष:-कोष्टकः, यश्रवाहचुल्ली इवेति, यत्रम्-इक्षुपीडनयत्रं तत्प्रधानः पाटको यत्रपाटकः तत्र चुल्ली यत्रेक्षुरसः पच्यते, इत्थम्भूतानि यानि
मनुष्यलोके स्थानानि 'तप्तानि' वह्निसंपर्कतस्तप्तीभूतानि, तानि च कानिचिद् अयआकरप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि संभ| वन्ति ततो विशेषप्रतिपादनार्थमाह-'समजोईभूयाई' प्राकृतत्वात्समशब्दस्य पूर्वनिपातः, 'ज्योतिःसमभूतानि' साक्षादग्निवर्णानि |
जातानीति भावः, एतदेवोपमया स्पष्टयति-'फुल्लकिंशुकसमानानि' प्रफुल्लपलाशकुसुमकल्पानि 'उक्कासहस्साई' इति ये मूला-12 8 मितो वित्रुट्य वित्रुट्याग्निकणा: प्रसर्पन्ति ते उल्का इत्युच्यन्ते तासां सहस्राणि उल्कासहस्राणि मुञ्चन्ति ज्वालासहस्राणि विनिर्मु-18
मगारसहस्राणि प्रविक्षरन्ति 'अन्तरन्तहूहूयमानानि अतिशयेन जाज्वल्यमानानि, कचित् 'अंतो अंतो सुहयहयासणा' Pइति पाठः, 'अन्तरन्तः सुहुतहुताशनानि' सुष्टु हुतो हुताशनो येषु तानि तथा तिष्ठन्ति तानि पश्येत् दृष्ट्वा चावगाहेत, अवगाह्य
च 'उष्णमपि' नरकोष्णवेदनाजनितं बहिःशरीरस्य परितापमपि प्रविनयेत्, नरकगतादुष्णस्पर्शादयआकरादिपूष्णस्पर्शस्यातीव मन्दत्वात् , एवं च सुखासिकाभावतस्तृषामपि क्षुधमपि दाहमपि अन्तःशरीरसमुत्थं प्रविनयेत् , तथा च सति तृडादिदोषापग2 मतो निद्रायेत वा प्रचलायेत वा स्मृति वा रतिं वा धृतिं वा उपलभेत, तत: शीत: शीतीभूतः सन् 'संकसन् संकसन्' संक्रामन् 2
संक्रामन् सातसौख्यवहुलो विहरेत् , अमीषां पदानामर्थः प्राग्वद्भावनीयः । एतावत्युक्ते भगवान् गौतमः पृच्छति-'भवे एयारूवे 8 सिया?' "स्यात्' संभाव्यते एतद् यथा भवेद् उष्णवेदनीयेषु नरकेषु एतद्रूपा उष्णवेदना?, भगवानाह-गौतम! नायमर्थः समर्थों यदुष्णवेदनीयेषु नरकेषु नैरयिका इति, अनन्तरं प्रतिपादितस्वरूपाया उष्णवेदनायाः अनिष्टतरिकामेव अप्रियतरिकामेव अमनोज्ञत