________________
कम ग्लानौ' इति वचनात्, एकां महतीं 'पुष्करिणी' पुष्कराण्यस्यां विद्यन्ते इति पुष्करिणी तां, किंविशिष्टामित्याह-चतकोणां' चत्वारः कोणा-अश्रयो यस्याः सा तथा तां, सम-विषमोन्नतिवर्जितं सुखावतारं तीरं-तटं यस्याः सा समतीरा ताम् , आनुपूर्येण-नीचैर्नीचैस्तरभावरूपेण न कहेलयैव कचिद्ग रूपा कचिदुन्नतिरूपा इति भावः, सुष्ठ-अतिशयेन यो जातो वप्रः-केदारो जलस्थानं तत्र गम्भीरम्-अलब्धस्ताघं शीतलं जलं यस्यां सा आनुपूर्व्यसुजातवप्रगम्भीरशीतलजला ताम्, 'संछण्णपत्तभिसमणाल'मिति संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यस्यां सा संछन्नपत्रबिसमृणाला ताम्, इह विसमृणालसाहचर्यात् पत्राणि -पमिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दा: मृणालानि-पद्मनाला:, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः केसरैः-केसरप्रधानैः फुल्लैः-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिता तां, तथा षट्पदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्याः सा पट्पदपरिभुज्यमानकमला तां, तथाऽच्छेन-खरूपतः स्फटिकवच्छुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णा तां, तथा पडिहत्था-अतिरेकता (त:) अतिप्रभूता इत्यर्थः भ्रमन्तो मत्स्यकच्छपा यस्यां सा पडिहत्थभ्रमन्मत्स्यकच्छपा, तथा अनेकैः शकुनिगणमिथुनकैः गणशब्दस्य प्राकृतत्वादस्थानेऽप्युपनिपातः, शकुनिमिथुनकैर्विचरितैः-इतस्ततः खेच्छया प्रवृत्तैः शब्दोअतिकम्-उन्नतशब्दं मधुरखरं नादितं यस्यां सा अनेकशकुनिगणमिथुनकविचरितशब्दोन्नतिकमधुरखरनादिता, ततः पूर्वपदेन विशेपणसमासः, तां दृष्ट्वाऽवगाहेत, अवगाह्य च 'उष्णमपि' परिदाहमपि शरीरस्य तत्र 'प्रविनयेत्' प्रकर्षेण सर्वासना स्फोटयेत् , तथा क्षुधामपि प्रविनयेत् प्रत्यासन्नतटवर्तिशल्लक्यादिकिसलयभक्षणात्, तृषमपि प्रविनयेत् जलपानात् , ज्वरमपि परिसंतापसमुत्थं प्रवि