SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ वा अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम्, एवंरूपा नाम तत्रोष्णवेदना ॥ अस्यैवार्थस्य स्पष्टतरभावनार्थ दृष्टान्तान्तरमाह - 'से जहानाम' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं वा दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य इति विकल्पनभावना, 'मत्तः' मदकलितः 'मातङ्गः' हस्ती, इह मातङ्गोऽन्त्यजोऽपि संभवति ततस्तदाशङ्काव्युदासार्थं नानादेशजविनेयजनानुप्रहाय (वा) पर्यायद्वयमाह - 'द्विपः ' द्वाभ्यां मुखेन करेण चेत्यर्थः पिवतीति द्विपः, 'मूलविभुजादय' इति कप्रत्ययः, कौं जीर्यतीति कुञ्जरः, यदिवा कुले - वनगहने रमति - रतिमाबनातीति कुञ्जरः 'कचिदिति उप्रत्ययः, षष्टिहायनाः - संवत्सरा यस्य स पष्टिहायनः ‘प्रथमशरत्कालसमये' कार्त्तिकमाससमये, इह प्राय ऋतवः सूर्यर्त्तवो गृह्यन्ते ते चाषाढायो द्विद्विमासप्रमाणा:, प्रवचने च क्रमेणैवंनामानः, तद्यथा - प्रथमः प्रावृट् द्वितीयो वर्षारात्रः तृतीयः शरत् चतुर्थी हेमन्तः पञ्चमो वसन्तः षष्ठो ग्रीष्मः, तथा चाह् पादलिप्तसूरिः — “पाउस वासारत्तो, सरओ हेमंत वसन्त गिम्हो य । एए खलु छप्पि रिऊ, जिणवरदिट्ठा मए सिट्ठा ॥१॥" ततः प्रथमशरत्कालसमयः कार्त्तिकसमय इति विवृत्तम्, आह च मूलटीकाकृत् - "प्रथमशरत्- कार्त्तिकमासः” तस्मिन् वाशब्दो विकल्पने 'चरमनिदाघकालसमये वा' चरम निदाघकालसमयो - ज्येष्ठमासपर्यन्तस्तस्मिन् वाशब्दो विकल्पने, 'उष्णाभिहतः ' सूर्यखरकिरणप्रतापाभिभूतः, अत एवोष्णैः सूर्यकिरणैः सर्वतः प्रतप्ताङ्गतया शोषभावतस्तृषाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः स्वेच्छया परिभ्रमतः कथञ्चिद्दवानिप्रत्यासत्तौ गमनतो दवाग्निज्वालाभिहतः अत एव 'आतुरः' क्वचिदपि स्वास्थ्यमलभमानः सन् आकुलः, सर्वाङ्गपरि॒तापसम्भवेन गलतालुशोषभावात् शुषितः, कचित् 'झिजिए' इति पाठस्तत्र 'क्षितः' क्षीणशरीर इति व्याख्येयम्, असाधारणतृड्वेदनासमुच्छलनात्पिपासितः, अत एव दुर्बलः शारीरमानसावष्टम्भरहितत्वात्, 'क्कान्तः' ग्लानिमुपगतः ३ प्रतिपत्तौ उद्देशः २ नारकाणां शीतोष्ण वेदनाः सू० ८९ ॥ १२२ ॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy