________________
भवमुरस्यं तब तद्बलं च उरस्यबलं तच समन्वागत:-समनुप्राप्त उरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलजुयलबाह' इति, तलौ-तालवृक्षो तयोर्यमलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं, तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहु:, .'लंघणपवणजवणपमद्दणसमत्थे इति, लङ्घने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमगतिगमने जवनेअतिशीघ्रगतौ प्रसर्दने-कठिनस्यापि वस्तुनश्चर्णनकरणे समर्थः लखनप्लवनजवनप्रमर्दनसमर्थः, कचित् 'लंघणपवणजवणवायामणसमत्थे' इति पाठस्तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, 'छेकः' द्वासप्ततिकलापण्डित: 'दक्षः' कार्याणामविलम्बितकारी, | 'प्रष्ठः' वाग्ग्मी 'कुशलः' सम्यक्रियापरिज्ञानवान् 'मेधावी' परस्पराव्याहतपूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निपुण यथा भवति एवं शिल्पं-क्रियासु कौशलमुपगतः-प्राप्तो निपुणशिल्पोपगतः, एकं महान्तमयस्पिण्डम् 'उदकवारकसमानं' लघुपानीयघटसमानं गृहीला 'तम्' अयस्पिण्डं तापयित्वा तापयित्वा ततो घनेन कुट्टयित्वा कुट्टयित्वा यावदेकाहं वा द्वयहं वा यावदुत्कर्षतोऽर्द्धमासं संहन्यात् , ततो णमिति वाक्यालङ्कारे 'तम्' अयस्पिण्ड शीतं, स च शीतो पहिर्मनाग्मात्रेणापि स्यादत आह"शीतीभूतं सर्वासना शीतत्वेन परिणतं अयोमयेन संदंशकेन गृहीत्वा 'असद्भावस्थापनया' असद्भावकल्पनया नैतदभूत् न भवति भविष्यति वा केवलमसद्भूतमिदं कल्प्यत इति, उष्णवेदनेषु नरकेषु प्रक्षिपेत् , प्रक्षिप्य च स पुरुपो णमिति वाक्यालङ्कारे "उम्मिसियनिमिसियंतरेण' उन्मिषितनिमिषितान्तरेण यावताऽन्तरेण-यावता व्यवधानेन उन्मेषनिमेषौ क्रियेते तावदन्तरप्रमाणेन कालेनातिक्रान्तेन पुनरपि प्रत्युद्धरिष्यामीतिकृत्वा यावद् द्रष्टुं प्रवर्तते तावत् 'प्रवितरमेव' प्रस्फुटितमेव, यदिवा 'प्रविलीनमेव' नवनीतमिक सर्वथा गलितमेव, यदिवा 'प्रविध्वस्तमेव' सर्वथा भस्मसाद्भूतमेव पश्येत्, न पुनः शक्नुयाद् अचिरात्तं अप्रस्फुटितं अविलीनं