________________
तथा 'नित्यं सर्वकालं स्वत एवाप्रेऽपि त्रस्ताः' परमाधार्मिकदेवपरस्परोदीरितदुःखसंपातभयात्रासमुपपन्नाः, तथा 'नित्यं सर्वकालं परमाधार्मिकैः परस्परं वा 'त्रासिताः' त्रासं प्राहिताः, तथा 'नित्यमुद्विग्नाः' यथोक्तरूपदुःखानुभवतस्तद्गतावासपराङ्मुखचित्ताः, तथा 'नित्यं सर्वकालम् 'उपप्लता' उपप्लवेनोपेता न तु मनागपि रतिमासादयन्ति, एवं 'नित्यं सर्वकालं परममशुभम् "अतुलम् अशुभत्वेनानन्यसदृशम् 'अनुवद्धम्' अशुभत्वेन निरन्तरमुपचितं निरयभवं 'प्रत्यनुभवन्तः प्रत्येकं वेदयमाना विहरन्ति, एवं पृ-1 थिव्यां पृथिव्यां तावद्वक्तव्यं यावद्धःसप्तमी, अस्यां चाधःसप्तम्यां क्रूरकर्माणः पुरुषा उत्पद्यन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थ पञ्च पुरुषान् उपन्यस्यति-'अहेसत्तमाए ण'मित्यादि, अधःसप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्यमाणस्वरूपाः पञ्च महापुरुषाः 'अनुत्तरैः' सर्वोत्तमप्रकर्षप्राप्तैः 'दण्डसमादानैः' समादीयते कर्म एभिरिति समादानानि-कर्मोपादानहेतवः दण्डा एव-मनोदण्डादयः प्राणव्यपरोपणाध्यवसायरूपाः समादानानि दण्डसमादानानि तैः कालमासे कालं कृत्वोत्पन्नाः, तद्यथा-रामो जा-2 मदग्निसुतः पशुराम इत्यर्थः, दाढादाल: छातीसुतः, वसू राजा उपरिचरः, स हि देवताऽधिष्ठिताकाशस्फटिकसिंहासनोपविष्टः सन्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं प्रसिद्धिमगमत्-सत्यवादी किलैप वसुराजा न प्राणालायेऽप्यलीकं भाषते ततः सत्त्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशे चरतीति, स चान्यदा हिंस्रवेदार्थप्ररूपकस्य पर्वतस्य पक्षमभिगृह्य सम्यग्दृष्टे रदस्य पक्षमनभिगृहन्नलीकवादित्वात्प्रकुपितदेवताचपेटाहतः सिंहासनात्परिभ्रष्टो रौद्रध्यानमभिरूढः सप्तमपृथिव्यामप्रतिष्ठाननरकमयासीत् , सुभूमो
ऽष्टमश्चक्रवर्ती कौरव्यः कौरव्यगोत्रो ब्रह्मदत्तञ्चलनीसुत: 'ते णं तत्थ वेयणं वेयंती' त्यादि, 'ते' परशुरामादयस्तत्र-अप्रतिष्ठाने नरके || वेदनां वेदयन्ते उज्ज्वला यावद् दुरध्यासामिति प्राग्वत् ।। सम्प्रति नरकेपूष्णवेदनायाः स्वरूपमभिधित्सुराह-'उसिणवेदणिज्जेसु णं