________________
GRE
इव इनुपर्वकृमय इव 'चालेमाणा चालेमाणा' शरीरस्य मध्यभागेन संचरन्तः संचरन्तो वेदनामुदीरयन्त्युज्वलामित्यादि प्राग्वत् ॥
सम्प्रति क्षेत्रस्वभावजां वेदनां प्रतिपादयति-'रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त किं शीतां वेदनां वेद्यन्ते उष्णां वेदनां * १ वेदयन्ते शीतोष्णां वा?, भगवानाह-गौतम! न शीतां वेदनां वेदयन्ते किन्तु उष्णां वेदनां वेदयन्ते, ते हि शीतयोनिका योनिस्था.
नानां केवलहिमानीप्रख्यशीतप्रदेशालकत्वात् , योनिस्थानव्यनिरेकेण चान्यत् सर्वमपि भूम्यादि खादिरागारादपि महाप्रतप्तमतस्ते उ
ष्णवेदनामनुभवन्ति, नापि शीतोष्णां वेदनां वेदयन्ते, शीतोष्णस्वभावतया वेदनाया नरकेपु मूलतोऽप्यसम्भवात् , एवं शर्कराप्रभा- ॐ वालुकाप्रभानैरयिका अपि वक्तव्याः, पङ्कप्रभापृथिवीनैरयिकपृच्छायाम् भगवानाह-गौतम! शीतामपि वेदनां वेदयन्ते नरकावासभे& देनोष्णामपि वेदनां वेदयन्ते नरकावासभेदेनैव, न तु शीतोष्णां, तत्र ते वहुतरा ये उपणां वेदनां वेदयन्ते, प्रभूततराणां शीतयोनि- * त्वात् , ते स्तोकतरा ये शीतां वेदनां वेदयन्ते, अल्पतराणामुष्णयोनित्वात्, एवं धूमप्रभायामपि वक्तव्यं, नवरं ते बहुतरा ये शीतवे४ दनां वेदयन्ते, बहूनामुष्णयोनित्वात् , ते स्तोकतरा ये उष्णवेदना वेदयन्ते, अल्पतराणां शीतयोनित्वात् , तमःप्रभापृथिवीनैरयिकपृ-
च्छायां भगवानाह-गौतम! शीतां वेदनां वेदयन्ते नोष्णां नापि शीतोष्णां, तत्रत्यानां सर्वेपामुष्णयोनित्वात् , योनिस्थानव्यतिरेकेण है चान्यस्य सर्वस्यापि नरकभूम्यादेमहाहिमानीप्रख्यत्वात्, एवं तमस्तमाप्रभापृथिवीनैरयिका अपि वक्तव्या, नवरं परमां शीतवेदनां वेदयन्ते इति वक्तव्यं, तमःप्रभापृथिवीतः तमस्तमप्रभापृथिव्यां शीतवेदनाया अतिप्रबलत्वात् ।। सम्प्रति भवानुभवप्रतिपादनार्थमाह-५ 'रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त । कीदृशं नरकभवं प्रत्यनुभवन्तः प्रत्येक वेदयमानाः 'विहरन्ति' अवतिष्ठन्ते?, भगवानाह-गौतम रत्नप्रभापृथिवीनैरयिका 'नित्यं सर्वकालं क्षेत्रखभावजमहानिविडान्धकारदर्शनतो भीताः, सर्वत उपजातशङ्कत्वात् ,
३प्रतिपत्ती उद्देशः २ नारकाणां क्षुत्तृति क्रिया वेदनाः सू० ८९
A TERIEO
॥१२०॥