________________
RECENGAGE
रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कति लेश्याः प्रज्ञप्ताः?, भगवानाह-गौतम! कापोतलेश्या प्रज्ञप्ता, एवं शर्कराप्रभानैरयिकाणामपि, नवरं तेषां कापोतलेश्या सलिष्टतरा वेदितव्या, वालुकाप्रभानैरयिकाणां द्वे लेश्ये, तद्यथा-नीललेश्या च कापोतलेश्या च, तत्र ते बहतरा ये कापोतलेश्याः, उपरितनप्रस्तटवर्तिनां नारकाणां कापोतलेश्याकत्वात् तेषां चातिभूयस्कत्वात् , ते स्तोकतरा ये नीललेयाकाः, पङ्कप्रभापृथिवीनैरयिकाणामेका नीललेश्या, सा च तृतीयपृथिवीगतनीललेश्याऽपेक्षयाऽविशुद्धतरा, धूमप्रभापृथिवीनैरयिकाणां लेश्ये, तद्यथा-कृष्णलेश्या च नीललेश्या च, तत्र ते बहुतरा ये नीललेश्याकाः, ते स्तोकतरा ये कृष्णलेश्याका:, भावनाऽ
गापि प्रावत. तमःप्रभापृथिवीनरयिकाणां कृष्णलेश्या, सा च पञ्चमपृथिवीगतकृष्णलेश्याऽपेक्षयाऽविशुद्धतरा, अधःसप्तमपृथिवीन5 रयिकाणामेका परमकृष्णलेश्या, उक्तं च व्याख्याप्रज्ञप्तौ-"काऊ दोसु तइयाएँ मीसिया नीलिया चउत्थीए । पंचमियाए मीसा || कानो परमकण्हा ॥१॥" सम्प्रति सम्यग्दृष्टित्वादिविशेषप्रतिपादनार्थमाह-'रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! सिम्यादप्रयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयो वा', भगवानाह-गौतम! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिथ्यादृष्टयोइपि. एवं प्रथिव्यां पृथिव्यां तावद्वाच्यं यावत्तमस्तमायाम् ॥ सम्प्रति ज्ञान्यज्ञानिचिन्तां कुर्वन्नाह-'रयणे'त्यादि, रत्नप्रभापृथिवीनरयिका भदन्त ! किं ज्ञानिनोऽज्ञानिन: ?, भगवानाह-गौतम ज्ञानिनोऽपि अज्ञानिनोऽपि, सम्यग्दृशां ज्ञानित्वान्मिथ्याहशामज्ञानित्वात , तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, अपर्याप्तावस्थायामपि तेपामवधिज्ञानसम्भवात् , सङ्क्षिपञ्चेन्द्रियेभ्यस्तेषामुत्पादात् , त्रि
ज्ञानित्वमेव भावयति, तद्यथा-आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, येऽज्ञानिनस्ते 'अत्थेगइया' इति अस्तीतिनिपातो1 न बहवचनगर्भः सन्त्येकका यज्ञानिनः सन्येककारुयज्ञानिनः, तत्र येऽसङ्क्षिपञ्चेन्द्रियेभ्य उत्पद्यन्ते तेपामपर्याप्तावस्थायां विभङ्गा