________________
कुणिमवावणे' यादि, मृतः सन् कुथितः - पूतिभावमुपगतो मृतकुथितः, स पोच्छूनावस्थामात्रगतोऽपि भवति, न च स तथा बिगन्धस्तत आह-विनष्ट:-उच्छूनावस्थां प्राप्य स्फुटित इति भावः, सोऽपि तथा दुरभिगन्धो न भवति तत आह— 'कुणिमवावण्णत्त व्यापन्नं- विशरारुभूतं कुणिमं - मांसं यस्य स तथा ततो विशेषणसमासः, 'दुरभिगन्धः' इति दुरभि: - सर्वेषामाभिमुख्येन दुष्टो गन्धो यस्यासौ दुरभिगन्धः, अशुचिश्च विलीनो-मनसः कलिमलपरिणामहेतुः 'विगय' इति विगतं प्रनष्टं यदभिमुखतया प्राणिनां गतं गमनं यस्मिन्ं, तथा बीभत्सया - निन्दया दर्शनीयो बीभत्सादर्शनीयः ततो विशेषणसमासः अशुचिविगतवीभत्सादर्शनीयः 'किमिजालाउलसंसत्ते' इति संसक्तः सन् कृमिजालाकुलो जातः कृमिजालाकुलसंसक्तः, मयूरव्यंसकादित्वात्समासः संसक्तशब्दस्य च परनिपातः, एतावत्युक्ते गौतम आह- 'भवे एयारूवे सिया ?" इति, स्याद् भवेद्-भवेयुरेतद्रूपाः - यथोक्तविशेषणविशिष्टा अहिमृतादिरूपा गन्धेनाधिकृता नरकाः, सूत्रे च बहुवचनेऽप्येकवचनं प्राकृतत्वात्, भगवानाह - गौतम ! 'नायमर्थः समर्थो' नायमर्थ उपपन्नो, यतोऽस्यां रत्नप्रभायां पृथिव्यां नरका इतो-यथोक्तविशेषणविशिष्टा हिमृतादेरनिष्टतरा एव, तत्र किञ्चिद्रम्यमपि कस्याप्यनिष्टतरं भवति तर्त आह—अकान्ततरा एव—–स्वरूपतोऽप्यकमनीयतरा एव, अभव्या एवेति भावः, तत्राकान्तमपि कस्यापि प्रियं भवति यथा गर्त्ताशूकरस्याशुचिः, तत आह-अप्रियतरा एव न कस्यापि प्रिया इति भाव:, अत एवामनोज्ञतरा एव, अमनआपतरा एव गन्धमधिकृत्य प्रज्ञप्ताः, तत्र मनोज्ञं - मनोऽनुकूलमात्रं यत्पुनः स्वविषये मनोऽत्यन्तमासक्तं करोति तन्मनआपम्, एकार्थिका वा एते सर्वे शब्दाः शक्रेन्द्रपुरन्दरादिवत् नानादेशजविनेयजनानुप्रहार्थमुपात्ताः, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्याम् ॥ स्पर्शमधिकृत्याह - 'इमीसे ण' मित्यादि, प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! तद्यथा नाम -- 'असिपत्रमिति वा' असिः खङ्गं तस्य पत्रमसिपत्रं क्षुरप्रमिति वा
३ प्रतिपत्तौ उद्देशः १
नरकावासानां वर्णादि
सू० ८३
॥ १०७ ॥