SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ लग्गेति वा भिंडिमालग्गेति वा सूचिकलावेति वा कवियच्छूति वा विंचुयकंटएति वा इंगालेति वा जालेति वा मुम्मुरेति वा, अचिति वा अलाएति वा सुद्धागणीइ वा, भवे एतारूवे सिया?, णो तिणढे समढे, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणितरा चेव जाव अम णामतरका चे फासे णं पण्णत्ता, एवं जाव अधेसत्तमाए पुढवीए ॥ (सू० ८३) 'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कीदृशा वर्णेन प्रज्ञप्ता:?, भगवानाह-गौतम! कालाः, तत्र कोऽपि निष्प्रतिभतया मन्दकालोऽप्याशक्येत ततस्तदाशङ्काव्यवच्छेदार्थ विशेषणान्तरमाह-कालावभासाः' काल:-कृष्णोsवभासः-प्रतिभाविनिर्गमो येभ्यस्ते कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अत एव 'गम्भीररोमहर्षोः' गम्भीरः-अतीवोत्कटो रोमहर्षो-रोमोद्धर्षों भयवशाद् येभ्यस्ते गम्भीररोमहर्षाः, किमुक्तं भवति ?-एवं नाम ते कृष्णावभासा यदर्शनमात्रेणापि नारकजन्तूनां भयसम्पादनेन अनर्गलं रोमहर्षमुत्पादयन्तीति, अत एव भीमा-भयानका भीमत्वादेव उनासनकाः, उत्रास्यन्ते नारका जन्तव एभिरिति उत्रासना उत्रासना एव उत्रासनकाः, किं वहुना?-वर्णेन' वर्णमविकृत्य परमकृष्णाः प्रज्ञप्ताः, यत ऊर्ध्व न किमपि भयानकं कृष्णमस्तीति भावः, एवं प्रतिपृथिवि तावद्वक्तव्यं यावध:सप्तम्याम् ॥ गन्धमधिकृत्याह-'इमीसे णं भंते!' इत्यादि, प्रश्नसूत्रं सुगम, भगवानाह-गौतम तद्यथा नाम-'अहिमृत इति.वा' अहिमृतो नाम मृताहिदेहः, एवं सर्वत्र भावनीयं, गोमृत इति वा अश्वमृत इति वा मार्जारमृत इति वा हस्तिमृत इति वा सिंहमृत इति वा व्याघ्रमृत इति वा द्वीप:-चित्रकः, सर्वत्र अहिश्चासौ मृतश्च अहिमृत इत्येवं विशेषणसमासः, इह मृतकं सद्यःसंपन्नं न विगन्धि भवति तत आह-मयकुहियविण
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy